पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 241 to 250 of 1051 verses
तच्छ्रुत्वा पिङ्गलक आह—साधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवएदमभिहितम् । तद्दत्ता मया तस्याभय-दक्षिणा । परं सोऽपि मद्-अर्थेऽभय-दक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते—

Verse 137
अन्तः-सारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः । मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥
Metre: अनुष्टुप्

तथा च—

Verse 138
मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥
Metre: अनुष्टुप्

दमनकोऽपि तं प्रणम्य संजीवक-सकाश प्रस्थितः सहर्षमचिन्तयत्-अहो प्रसाद-संमुखी नः स्वामी वचन-वशगश्च संवृत्तः । तन्नास्ति धन्यतरो मम । उक्तं च—

Verse 139
अमृतं शिशिरे वह्निरमृतं प्रिय-दर्शनम् । अमृतं राज-संमानममृतं क्षीर-भोजनम् ॥
Metre: अनुष्टुप्

अथ संजीवक-सकाशमासाद्य स-प्रश्रयमुवाच-भो मित्र प्रार्थितोऽसौ मया भवद्-अर्थे स्वाम्य्-अभय-प्रदानम् । तद्-विश्रब्धं गम्यतामिति । परं त्वया राज-प्रसादमासाद्य मया सह समय-धर्मेण वर्तितव्यम् । न गर्वमासाद्य स्व-प्रभुतया विचरणीयम् । अहमपि तव सङ्केतेन सर्वा राज्य-धुरममात्य-पदवीमाश्रित्योद्धरिष्यामि । एवं कृते द्वयोरप्यावयो राज-लक्ष्मी-भाग्या भविष्यति । यतः—

Verse 140
आखेटकस्य धर्मेण विभवाः स्युर्वशे नॄणाम् । नृ-प्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥
Metre: अनुष्टुप्

तथा च—

Verse 141
यो न पूजयते गर्वादुत्तमाधम-मध्यमान् । नृपासन्नान्स मान्योऽपि भ्रश्यते दन्तिलो यथा ॥
Metre: अनुष्टुप्

Showing 241 to 250 of 1051 verses