तच्छ्रुत्वा पिङ्गलक आह—साधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवएदमभिहितम् । तद्दत्ता मया तस्याभय-दक्षिणा । परं सोऽपि मद्-अर्थेऽभय-दक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते—
अन्तः-सारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः । मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥
Metre: अनुष्टुप्
मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥
Metre: अनुष्टुप्
दमनकोऽपि तं प्रणम्य संजीवक-सकाश प्रस्थितः सहर्षमचिन्तयत्-अहो प्रसाद-संमुखी नः स्वामी वचन-वशगश्च संवृत्तः । तन्नास्ति धन्यतरो मम । उक्तं च—
अमृतं शिशिरे वह्निरमृतं प्रिय-दर्शनम् । अमृतं राज-संमानममृतं क्षीर-भोजनम् ॥
Metre: अनुष्टुप्
अथ संजीवक-सकाशमासाद्य स-प्रश्रयमुवाच-भो मित्र प्रार्थितोऽसौ मया भवद्-अर्थे स्वाम्य्-अभय-प्रदानम् । तद्-विश्रब्धं गम्यतामिति । परं त्वया राज-प्रसादमासाद्य मया सह समय-धर्मेण वर्तितव्यम् । न गर्वमासाद्य स्व-प्रभुतया विचरणीयम् । अहमपि तव सङ्केतेन सर्वा राज्य-धुरममात्य-पदवीमाश्रित्योद्धरिष्यामि । एवं कृते द्वयोरप्यावयो राज-लक्ष्मी-भाग्या भविष्यति । यतः—
आखेटकस्य धर्मेण विभवाः स्युर्वशे नॄणाम् । नृ-प्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥
Metre: अनुष्टुप्
यो न पूजयते गर्वादुत्तमाधम-मध्यमान् । नृपासन्नान्स मान्योऽपि भ्रश्यते दन्तिलो यथा ॥
Metre: अनुष्टुप्