एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वातिति ।
संजीवक आह—भद्र एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यमिति । एवमभिहिते दमनकस्तमादाय पिङ्गलक-सकाशमगमत् । आह च-देव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरःसरमुवाच-अपि शिवं भवतः । कुतस्त्वमस्मिन्वने विजने समायातोऽसि ?
तेनाप्यात्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस्तथा सर्वं निवेदितम् । तच्छ्रुत्वा पिङ्गलकः सादरतरं तमुवाच-वयस्य न भेतव्यम् । मद्-भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद्बह्व्-अपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणामपि सत्त्वानामसेव्यम् । कुतः शष्प-भोजिनाम् ।
एवमुक्त्वा सकल-मृग-परिवृतो यमुना-कच्छमवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततश्च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीविकेन सह सुभाषित-गोष्ठीमनुभवन्नास्ते । अथवा साध्विदमुच्यते—
यदृच्छयाप्युपनतं सकृत्सज्जन-सङ्गतम् । भवत्यजरमत्यन्तं नाभ्यास-क्रममीक्षते ॥
Metre: अनुष्टुप्
संजीवकेनाप्यनेक-शास्त्रावगाहनादुत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैरेवाहोभिर्मूढ-मतिः पिङ्गलको धीमांस्तथा कृतो यथारण्य-धर्माद्वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-संजीवकावेव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृग-जनो दूरीभूतस्तिष्ठति । करटक-दमनकावपि प्रवेशं न लभेते । अन्यच्च सिंह-पराक्रमाभावात्सर्वोऽपि मृग-जनस्तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशमाश्रित्य स्थिताः ।
फल-हीनं नृपं भृत्याः कुलीनमपि चोन्नतम् । सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥
Metre: अनुष्टुप्
अपि संमान-संयुक्ताः कुलीना भक्ति-तत्-पराः । वृत्ति-भङ्गान्महीपालं त्यजन्त्येव हि सेवकाः ॥
Metre: अनुष्टुप्