पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 291 to 300 of 1051 verses
एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वातिति ।

संजीवक आह—भद्र एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यमिति । एवमभिहिते दमनकस्तमादाय पिङ्गलक-सकाशमगमत् । आह च-देव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरःसरमुवाच-अपि शिवं भवतः । कुतस्त्वमस्मिन्वने विजने समायातोऽसि ?

तेनाप्यात्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस्तथा सर्वं निवेदितम् । तच्छ्रुत्वा पिङ्गलकः सादरतरं तमुवाच-वयस्य न भेतव्यम् । मद्-भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद्बह्व्-अपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणामपि सत्त्वानामसेव्यम् । कुतः शष्प-भोजिनाम् ।

एवमुक्त्वा सकल-मृग-परिवृतो यमुना-कच्छमवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततश्च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीविकेन सह सुभाषित-गोष्ठीमनुभवन्नास्ते । अथवा साध्विदमुच्यते—

Verse 162
यदृच्छयाप्युपनतं सकृत्सज्जन-सङ्गतम् । भवत्यजरमत्यन्तं नाभ्यास-क्रममीक्षते ॥
Metre: अनुष्टुप्

संजीवकेनाप्यनेक-शास्त्रावगाहनादुत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैरेवाहोभिर्मूढ-मतिः पिङ्गलको धीमांस्तथा कृतो यथारण्य-धर्माद्वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-संजीवकावेव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृग-जनो दूरीभूतस्तिष्ठति । करटक-दमनकावपि प्रवेशं न लभेते । अन्यच्च सिंह-पराक्रमाभावात्सर्वोऽपि मृग-जनस्तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशमाश्रित्य स्थिताः ।

उक्तं च—

Verse 163
फल-हीनं नृपं भृत्याः कुलीनमपि चोन्नतम् । सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥
Metre: अनुष्टुप्

तथा च—

Verse 164
अपि संमान-संयुक्ताः कुलीना भक्ति-तत्-पराः । वृत्ति-भङ्गान्महीपालं त्यजन्त्येव हि सेवकाः ॥
Metre: अनुष्टुप्

Showing 291 to 300 of 1051 verses