पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 301 to 310 of 1051 verses
अन्यच्च—

Verse 165
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः । कदाचित्तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥
Metre: अनुष्टुप्

तथा च केवलं सेवका इत्थम्भूता यावत्समस्तमप्येतज्जगत्परस्परं भक्षणार्थं सामादिभिरुपायैस्तिष्ठति । तद्यथा—

Verse 166
देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः । वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः ॥
Metre: अनुष्टुप्

Verse 167
प्रमादिनां तथा चौरा भिक्षुका गृह-मेधिनाम् । गणिकाः कामिनां चैव सर्व-लोकस्य शिल्पिनः ॥
Metre: अनुष्टुप्

Verse 168
सामादि-सज्जितैः पाशैः प्रतीक्षन्ते दिवा-निशम् । उपजीवन्ति शक्त्या हि जलजा जलदानिव ॥
Metre: अनुष्टुप्

अथवा साध्विदमुच्यते—

Verse 169
सर्पाणां च खलानां च पर-द्रव्यापहारिणाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥
Metre: अनुष्टुप्

Verse 170
अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी तं च क्रौञ्च-रिपोः शिखी गिरि-सुता-सिंहोऽपि नागाशनम् । इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे तत्राप्यस्य कथं न भावि जगतो यस्मात्स्वरूपं हि तत् ॥
Metre: शार्दूलविक्रीडितम्

ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कण्ठौ परस्परं करटक-दमनकौ मन्त्रयेते । तत्र दमनको ब्रूते-आर्य करटक । आवां तावदप्रधानतां गतौ । एष पिङ्गलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः । सर्वोऽपि परिजनो गतः । तत्किं क्रियते ।

Showing 301 to 310 of 1051 verses