पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 311 to 320 of 1051 verses
करटक आह—यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः । उक्तं च—

Verse 171
अशृन्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवी-पतिः । यथा स्व-दोष-नाशाय विदुरेणाम्बिकासुतः ॥
Metre: अनुष्टुप्

तथा च—

Verse 172
मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः । उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥
Metre: अनुष्टुप्

तत्त्वयैष शष्प-भोजी स्वामिनः सकाशमानीतः । तत्स्वहस्तेनाङ्गाराः कर्षिताः ।

दमनक आह—सत्यमेतत् । ममायं दोषः । न स्वामिनः । उक्तं च—

Verse 173
जम्बूको हुडु-युद्धेन वयं चाषाढ-भूतिना । दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः ॥
Metre: अनुष्टुप्

करटक आह—कथमेतत् ?

सोऽब्रवीत्- कथा ४ देवशर्म-परिव्राजक-कथा

अस्ति कस्मिंश्चिद्विविक्त-प्रदेशे मठायतनम् । तत्र देव-शर्मा नाम परिव्राजकः पर्तिवसति स्म । तस्यानेक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात्कालेन महती वित्त-मात्रा सञ्जाता । ततः स न कस्यचिद्विश्वसिति । नक्तं दिनं कक्षान्तरात्तां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते—

Showing 311 to 320 of 1051 verses