षड्-अक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् । लिङ्गस्य मूर्ध्नि यो दद्यान्न स भूयोऽभिजायते ॥
Metre: अनुष्टुप्
तच्छ्रुत्वाषाढ-भूतिस्तत्-पादौ गृहीत्वा स-प्रश्रयमिदमाह-भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु ।
देवशर्मा आह—वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठ-मध्ये न प्रवेष्टव्यम् । यत्-कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च—
दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालसाद्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रयात्स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् ॥
Metre: शार्दूलविक्रीडितम्
तत्त्वया व्रत-ग्रहणानन्तरं मठ-द्वारे तृण-कुटीरके शयितव्यमिति ।
स आह—भगवन् ! भवद्-आदेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।
अथ कृत-शयन-समयं देवशर्म-निग्रहं कृत्वा शास्त्रोक्त-विधिना शिष्यतामनयत् । सोऽपि हस्त-पादावमर्दनादि-परिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढ-भूतिश्चिन्तयामास-अहो, न कथञ्चिदेष मे विश्वासमागच्छति । तत्किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशु-धर्मेण व्यापादयामि ?इति ।
एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्य-पुत्रः कश्चिद्ग्रामादामन्त्रणार्थं समायातः । प्राह च-भगवन्, पवित्रारोपण-कृते मम गृहमागम्यतामिति ।
तच्छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्ट-मनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्था-मध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तद्-अनन्तरमाषाढभूतिमिदमाह-भो आषाढभूते ! यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावदेषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इत्युक्त्वा गतः ।
आषाढभूतिरपि तस्मिन्नदर्शनी-भूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति तावत्सुवर्ण-रोम-देह-यूथ-मध्ये हुडु-युद्धमपश्यत् । अथ रोष-वशाद्धुडु-युगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य लालट-पट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वा-लौल्येन रङ्ग-भूमिं प्रावेश्यास्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयत्-अहो मन्द-मतिरयं जम्बूकः । यदि कथमप्यनयोः सङ्घट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्कयामि ।