स आह—भोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस्त्वद्-आयत्तः । तत्किं मामुपालम्भयसि ?
तच्छ्रुत्वा सोमिलको यावद्ग्रन्थिमवलोकयति तावत्सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयत्-अहो किं मम धन-रहितस्य जीवितेन ? तदत्र वट-वृक्ष आत्मानमुद्बध्य प्राणांस्त्यजामि ।
एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत्प्रक्षिपति तावदेकः पुमानाकाश-स्थ एवेदमाह-भो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकामपि सहामि । तद्गच्छ स्व-गृहं प्रति । अन्यच्च भवदीय-साहसेनाहं तुष्टः । तथा मे न स्याद्व्यर्थं दर्शनम् । तत्प्रार्थ्यतामभीष्टो वरः कश्चित् ।
सोमिलक आह—यद्येवं तद्देहि मे प्रभूतं धनम् ।
स आह—भोः ! किं करिष्यसि भोग-रहितेन धनेन यतस्तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति ?उक्तं च—
किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥
Metre: अनुष्टुप्
सोमिलक आह—यद्यपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च—
कृपणोऽप्यकुलीनोऽपि सदा संश्रित-मानुषैः । सेव्यते स नरो लोके यस्य स्याद्वित्त-सञ्चयः ॥
Metre: अनुष्टुप्
शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥
Metre: अनुष्टुप्