पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 331 to 340 of 451 verses
स आह—भोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस्त्वद्-आयत्तः । तत्किं मामुपालम्भयसि ?

तच्छ्रुत्वा सोमिलको यावद्ग्रन्थिमवलोकयति तावत्सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयत्-अहो किं मम धन-रहितस्य जीवितेन ? तदत्र वट-वृक्ष आत्मानमुद्बध्य प्राणांस्त्यजामि ।

एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत्प्रक्षिपति तावदेकः पुमानाकाश-स्थ एवेदमाह-भो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकामपि सहामि । तद्गच्छ स्व-गृहं प्रति । अन्यच्च भवदीय-साहसेनाहं तुष्टः । तथा मे न स्याद्व्यर्थं दर्शनम् । तत्प्रार्थ्यतामभीष्टो वरः कश्चित् ।

सोमिलक आह—यद्येवं तद्देहि मे प्रभूतं धनम् ।

स आह—भोः ! किं करिष्यसि भोग-रहितेन धनेन यतस्तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति ?उक्तं च—

Verse 139
किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥
Metre: अनुष्टुप्

सोमिलक आह—यद्यपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च—

Verse 140
कृपणोऽप्यकुलीनोऽपि सदा संश्रित-मानुषैः । सेव्यते स नरो लोके यस्य स्याद्वित्त-सञ्चयः ॥
Metre: अनुष्टुप्

तथा च—

Verse 141
शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥
Metre: अनुष्टुप्

Showing 331 to 340 of 451 verses