कथा ६ तीक्ष्ण-विषाण-शृगाल-कथा
कस्मिंश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महा-वृषभो वसति । स च मदातिरेकात्परित्यक्त-निज-यूठः शृङ्गाभ्यां नदी-तटानि विदारयन्स्वेच्छया मरकत-सदृशानि शष्पाणि भक्षयन्नरण्य-चरो बभूव । अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित्स्व-भार्यया सह नदी-तीरे सुखोपविष्टस्तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणावालोक्य शृगाल्या शृगालोऽभिहितः-स्वामिन् ! पश्यास्य वृषभस्य मांस-पिण्डौ लम्बमानौ यथा स्थितौ । ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठ-यायिना भाव्यं ।
शृगाल आह—प्रिये ! न ज्ञायते कदाचिदेतयोः पतनं भविष्यति वा न वा । तत्किं वृथा श्रमाय मां नियोजयसि ?अत्र-स्थस्तावज्जलार्थमागतान्मूषकान्भक्षयिष्यामि समं त्वया । मार्गोऽयं यतस्तेषाम् । अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिदेतत्स्थानं समाश्रयिष्यति । नैतद्युज्यते कर्तुम् । उक्तं च—
यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥
Metre: अनुष्टुप्
शृगाल्याह-भोः कापुरुषस्त्वं यत्किंचित्प्राप्तं तेनापि सन्तोषं करोषि । उक्तं च—
सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥
Metre: अनुष्टुप्
तस्मात्पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च—
यत्रोत्साह-समारम्भो यत्रालस्य-विनिग्रहः । नय-विक्रम-संयोगस्तत्र श्रीरचला ध्रुवं ॥
Metre: अनुष्टुप्