पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 361 to 370 of 451 verses
पुरुष आह—यद्येवं तद्गच्छ भूयोऽपि वर्धमान-पुरम् । तत्र द्वौ वणिक्-पुत्रौ वसतः । एको गुप्त-धनः । द्वितीय उपभुक्त-धनः । ततस्तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनमभक्षितेन ततस्त्वामपि गुप्त-धनं करोमि । अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तदुपभुक्त-धनं करोमीति । एवमुक्त्वादर्शनं गतः ।

सोमिलकोऽपि विस्मित-मना भूयोऽपि वर्धमान-पुरं गतः । अथ सन्ध्या-समये श्रान्तः कथमपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन्कृच्छ्राल्लब्ध्वास्तमित-सूर्ये प्रविष्टः । अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद्गृहं प्रविश्योपविष्टः । ततश्च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किंचिदशनं दत्तम् । ततश्च भुक्त्वा तत्रैव यावत्सुप्तो निशीथे पश्यति तावत्तावपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह—भोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्योऽधिको व्ययो निर्मितो यत्सोमिलकस्यानेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम् ।

स आह—भोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभ-प्राप्तिर्दातव्या । तत्-परिणतिः पुनस्त्वद्-आयत्तेति । अथासौ यावदुत्तिष्ठति तावद्गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्-दोषेण कृतोपवासः सञ्जातः ।

सोमिलकोऽपि प्रभाते तद्-गृहान्निष्क्रम्य उपभुक्तधन-गृहं गतः । तेनापि चाभ्युत्थादिना सत्-कृतो विहित-भोजनाच्छादन-संमानस्तस्यैव गृहे भव्य-शय्यामारुह्य सुष्वाप । ततश्च निशीथे यावत्पश्यति तावत्तावेव द्वौ पुरुषौ मिथो मन्त्रयतः । अत्र तयोरेक आह—भोः कर्तः !अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत्कथय कथमस्योद्धारक-विधिर्भविष्यति । अनेन सर्वमेतद्व्यवहारक-गृहात्समानीतम् ।

स आह—भोः कर्मन् ! मम कृत्यमेतत् । परिणतिस्त्वद्-आयत्तेति । अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तमादाय समायात उपभुक्त-धनाय समर्पयामास ।

तद्दृष्ट्वा सोमिलकश्चिन्तयामास । सञ्चय-रहितोऽपि वरमेष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च—

Verse 150
अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम् । रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम् ॥
Metre: अनुष्टुप्

तद्विधाता मां दत्त-भुक्त-धनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतोऽहं ब्रवीमि-अर्थस्योपार्जनं कृत्वा इति ।

Verse 151
गृह-मध्य-निखातेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयं ॥
Metre: अनुष्टुप्

तद्भद्र ! हिरण्यकैवं ज्ञात्वा धन-विषये सन्तापो न कार्यः । अथ विद्यमानमपि धनं भोज्य-बन्ध्यतया तद्-अविद्यमानं मन्तव्यम् । उक्तं च—

Showing 361 to 370 of 451 verses