पुरुष आह—यद्येवं तद्गच्छ भूयोऽपि वर्धमान-पुरम् । तत्र द्वौ वणिक्-पुत्रौ वसतः । एको गुप्त-धनः । द्वितीय उपभुक्त-धनः । ततस्तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनमभक्षितेन ततस्त्वामपि गुप्त-धनं करोमि । अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तदुपभुक्त-धनं करोमीति । एवमुक्त्वादर्शनं गतः ।
सोमिलकोऽपि विस्मित-मना भूयोऽपि वर्धमान-पुरं गतः । अथ सन्ध्या-समये श्रान्तः कथमपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन्कृच्छ्राल्लब्ध्वास्तमित-सूर्ये प्रविष्टः । अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद्गृहं प्रविश्योपविष्टः । ततश्च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किंचिदशनं दत्तम् । ततश्च भुक्त्वा तत्रैव यावत्सुप्तो निशीथे पश्यति तावत्तावपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह—भोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्योऽधिको व्ययो निर्मितो यत्सोमिलकस्यानेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम् ।
स आह—भोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभ-प्राप्तिर्दातव्या । तत्-परिणतिः पुनस्त्वद्-आयत्तेति । अथासौ यावदुत्तिष्ठति तावद्गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्-दोषेण कृतोपवासः सञ्जातः ।
सोमिलकोऽपि प्रभाते तद्-गृहान्निष्क्रम्य उपभुक्तधन-गृहं गतः । तेनापि चाभ्युत्थादिना सत्-कृतो विहित-भोजनाच्छादन-संमानस्तस्यैव गृहे भव्य-शय्यामारुह्य सुष्वाप । ततश्च निशीथे यावत्पश्यति तावत्तावेव द्वौ पुरुषौ मिथो मन्त्रयतः । अत्र तयोरेक आह—भोः कर्तः !अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत्कथय कथमस्योद्धारक-विधिर्भविष्यति । अनेन सर्वमेतद्व्यवहारक-गृहात्समानीतम् ।
स आह—भोः कर्मन् ! मम कृत्यमेतत् । परिणतिस्त्वद्-आयत्तेति । अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तमादाय समायात उपभुक्त-धनाय समर्पयामास ।
तद्दृष्ट्वा सोमिलकश्चिन्तयामास । सञ्चय-रहितोऽपि वरमेष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च—
अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम् । रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम् ॥
Metre: अनुष्टुप्
तद्विधाता मां दत्त-भुक्त-धनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतोऽहं ब्रवीमि-अर्थस्योपार्जनं कृत्वा इति ।
गृह-मध्य-निखातेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयं ॥
Metre: अनुष्टुप्
तद्भद्र ! हिरण्यकैवं ज्ञात्वा धन-विषये सन्तापो न कार्यः । अथ विद्यमानमपि धनं भोज्य-बन्ध्यतया तद्-अविद्यमानं मन्तव्यम् । उक्तं च—