वाञ्छा-विच्छेदनं प्राहुः स्वास्थ्यं शान्ता मह-र्षयः । वाञ्छा निवर्तते नार्थैः पिपासेवाग्नि-सेवनैः ॥
Metre: अनुष्टुप्
धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा । प्रक्षालनाद्द्हि पङ्कस्य दूरादस्पर्शनं वरम् ॥
Metre: अनुष्टुप्
दानेन तुल्यो निधिरस्ति नान्यो लोभाच्च नान्योऽस्ति परः पृथिव्याम् । विभूषणं शील-समं न चान्यत्सन्तोष-तुल्यं धनमस्ति नान्यत् ॥
Metre: उपजातिः
दारिद्र्यस्य परा मूर्तिर्यन्मान-द्रविणाल्पता । जरद्-गव-धनः शर्वस्तथापि परमेश्वरः ॥
Metre: अनुष्टुप्
एवं ज्ञात्वा भद्र त्वया सन्तोषः कार्य इति । मन्थरकवचनमाकर्ण्य वायस आह—भद्र मन्थरको यदेवं वदति तत्त्वया चित्ते कर्तव्यम् । अथवा साध्विदमुच्यते—
सुलभाः पुरुषा राजन्सततं प्रिय-वादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
Metre: अनुष्टुप्
अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नाम-धारकाः ॥
Metre: अनुष्टुप्
अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धक-त्रासितस्तस्मिन्नेव सरसि प्रविष्टः । अथायान्तं स-सम्भ्रममवलोक्य लघुपतनको वृक्षमारूढः । हिरण्यकः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयमास्थितः । अथ लघुपतनको मृगं सम्यक्परिज्ञाय मन्थरकमुवाच-एह्येहि सखे मन्थरक ! मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुष-सम्भव इति ।
तच्छ्रुत्वा मन्थरको देश-कालोचितमाह-भो लघुपतनक ! यथायं मृगो दृश्यते प्रभूतमुच्छ्वासमुद्वहन्नुद्भ्रान्त-दृष्ट्या पृष्ठतोऽवलोकयति तन्न तृषार्त एष नूनं लुब्धक-त्रासितः । तज्ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च—
भय-त्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः । दिशोऽवलोकयत्येव न स्वास्थ्यं व्रजति क्वचित् ॥
Metre: अनुष्टुप्