अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस्तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता । सापि प्रहृष्ट-मनसा तं पतिं देववत्प्रतिपद्यादाय चान्य-विषयं गता ।
ततः कस्मिंश्चिद्दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रमावास-रक्षायै निरूप्य स्वयं च घृत-तैल-लवण-तण्डुलादि-क्रय-निमित्तं स-परिवारा गता । कृत्वा च क्रय-विक्रयं यावदागच्छति तावत्स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः । तस्य च मुखाद्भुजगः फणां निष्कास्य वायुमश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् ।
अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर्मध्याद्वल्मीकस्थेन सर्पेणोक्तम्-भो भो दुरात्मन् ! कथं सुन्दर-सर्वाङ्गं राज-पुत्रमित्थं कदर्थयसि ?
मुखस्थोऽरिरब्रवीत्-भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथमिदं दूषितं हाटक-पूर्णं कलश-युगलमित्येवं परस्परस्य मर्माण्युद्घाटितवन्तौ ।
पुनर्वल्मीकस्थोऽहिरब्रवीत्-भो दुरात्मन् ! भेषजमिदं ते किं कोऽपि न जानाति यज्जीर्णोत्कालित-काञ्जिका-राजिका-पानेन भवान्विनाशमुपयाति ।
अथोदरस्थोऽहिरब्रवीत्-तवाप्येतद्भेषजं किं कश्चिदपि न वेत्ति यदुष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्यादिति । एवं च सा राज-कन्या विटपान्तरिता तयोः परस्परालापान्मर्म-मयानाकर्ण्य तथैवानुष्ठितवती ।
विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परममासाद्य स्वदेशाभिमुखं प्रायात् । पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतोऽहं ब्रवीमि-परस्परस्य मर्माणि इति ।
तच्च श्रुत्वा स्वयमरिर्दनोऽप्येवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्-लीनं विहस्य रक्ताक्षः पुनरब्रवीत्-कष्टम् । विनाशितोऽयं भवद्भिरन्यायेन स्वामी । उक्तं च—
अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥
Metre: अनुष्टुप्