अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकारकर्णमपृच्छत्-कथय, किमत्र मन्यते भवान् ?
सोऽब्रवीत्-देव !अवध्य एवायम्, यतो रक्षितेनानेन कदाचित्परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च—
परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥
Metre: अनुष्टुप्
अरिमर्दनोऽब्रवीत्-कथमेतत् ?
कथा १० वल्मीकोदर-गत-सर्प-कथा
अस्ति कस्मिंश्चिन्नगरे देवशक्तिर्नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्-वैद्यैः सच्-छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यमेति । अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः ।
कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर्नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात्सर्वं सुखं लभ्यते ।
द्वितीया तु-विहितं भुङ्क्ष्व महाराज !इति ब्रवीति ।
तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः !एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रयच्छत तेन निज-विहितमियमेव भुङ्क्ते ।