पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 371 to 380 of 601 verses
अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकारकर्णमपृच्छत्-कथय, किमत्र मन्यते भवान् ?

सोऽब्रवीत्-देव !अवध्य एवायम्, यतो रक्षितेनानेन कदाचित्परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च—

Verse 191
परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥
Metre: अनुष्टुप्

अरिमर्दनोऽब्रवीत्-कथमेतत् ?

प्राकारकर्णः कथयति—

कथा १० वल्मीकोदर-गत-सर्प-कथा

अस्ति कस्मिंश्चिन्नगरे देवशक्तिर्नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्-वैद्यैः सच्-छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यमेति । अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः ।

कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर्नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात्सर्वं सुखं लभ्यते ।

द्वितीया तु-विहितं भुङ्क्ष्व महाराज !इति ब्रवीति ।

तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः !एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रयच्छत तेन निज-विहितमियमेव भुङ्क्ते ।

Showing 371 to 380 of 601 verses