पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 371 to 380 of 451 verses
Verse 152
उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥
Metre: अनुष्टुप्

तथा च—

Verse 153
उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परिवाह इवाम्भसाम् ॥
Metre: अनुष्टुप्

Verse 154
अन्यच्च- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥

एवं ज्ञात्वा विवेकिना न स्थित्य्-अर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च—

Verse 155
धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः । तप्त-ग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥
Metre: अनुष्टुप्

Verse 156
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वन-गजा बलिनो भवन्ति । कन्दैः फलैर्मुनि-वरा गमयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥
Metre: वसन्ततिलका

Verse 157
सन्तोषामृत-तृप्तानां यत्सुखं शान्त-चेतसाम् । कुतस्तद्-धन-लुब्धानामितश्चेतश्च धावताम् ॥
Metre: अनुष्टुप्

Verse 158
पीयूषमिव संतोषं पिबतां निर्वृतिः परा । दुःखं निरन्तरं पुंसामसंतोषवतां पुनः ॥
Metre: अनुष्टुप्

Verse 159
निरोधाच्चेतसोऽक्षाणि निरुद्धान्यखिलान्यपि । आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर्गभस्तयः ॥
Metre: अनुष्टुप्

Showing 371 to 380 of 451 verses