तच्छ्रुत्वा चित्राङ्ग आह—भो मन्थरक ! ज्ञातं त्वया सम्यङ्मे त्रास-कारणम् । अहं लुब्धक-शर-प्रहारादुद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर्लुब्धकैर्व्यापादितं भविष्यति । तच्छरणागतस्य मे दर्शय किंचिदगम्यं स्थानं लुब्धकानाम् ।
तदाकर्ण्य मन्थरक आह—भोश्चित्राङ्ग ! श्रूयतां नीति-शास्त्रम् ।
द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रु-दर्शने । हस्तयोश्चालनादेको द्वितीयः पाद-वेग-जः ॥
Metre: अनुष्टुप्
तद्गम्यतां शीघ्रं घनं वनं यावदद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः ।
अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाच-भो मन्थरक ! गतास्ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिण्ड-धारिणः । तच्चित्राङ्ग ! त्वं विश्रब्धो जलाद्बहिर्भव । ततस्ते चत्वारोऽपि मित्र-भावमाश्रितास्तस्मिन्सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात्सुभाषित-गोष्ठी-सुखमनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते—
सुभाषित-रसास्वाद-बद्ध-रोमाञ्च-कञ्चुकं । विनापि संगमं स्त्रीणां कवीनां सुखमेधते ॥
Metre: अनुष्टुप्
सुभाषित-मय-द्रव्य-सङ्ग्रहं न करोति यः । स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम् ॥
Metre: अनुष्टुप्
सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य संपुटिका नास्ति कुतस्तस्य सुभाषितम् ॥
Metre: अनुष्टुप्
अथैकस्मिन्नहनि गोष्ठी-समये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुमारब्धाः । अहो किमद्य सुहृन्न समायातः । किं सिंहादिभिः क्वचिद्व्यापादित उत लुब्धकैरथ वानले प्रपतितो गर्ता-विषमे वा नव-तृण-लौल्यादिति । अथवा साध्विदमुच्यते—