पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 391 to 400 of 451 verses
तच्छ्रुत्वा चित्राङ्ग आह—भो मन्थरक ! ज्ञातं त्वया सम्यङ्मे त्रास-कारणम् । अहं लुब्धक-शर-प्रहारादुद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर्लुब्धकैर्व्यापादितं भविष्यति । तच्छरणागतस्य मे दर्शय किंचिदगम्यं स्थानं लुब्धकानाम् ।

तदाकर्ण्य मन्थरक आह—भोश्चित्राङ्ग ! श्रूयतां नीति-शास्त्रम् ।

Verse 169
द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रु-दर्शने । हस्तयोश्चालनादेको द्वितीयः पाद-वेग-जः ॥
Metre: अनुष्टुप्

तद्गम्यतां शीघ्रं घनं वनं यावदद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः ।

अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाच-भो मन्थरक ! गतास्ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिण्ड-धारिणः । तच्चित्राङ्ग ! त्वं विश्रब्धो जलाद्बहिर्भव । ततस्ते चत्वारोऽपि मित्र-भावमाश्रितास्तस्मिन्सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात्सुभाषित-गोष्ठी-सुखमनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते—

Verse 170
सुभाषित-रसास्वाद-बद्ध-रोमाञ्च-कञ्चुकं । विनापि संगमं स्त्रीणां कवीनां सुखमेधते ॥
Metre: अनुष्टुप्

Verse 171
सुभाषित-मय-द्रव्य-सङ्ग्रहं न करोति यः । स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम् ॥
Metre: अनुष्टुप्

तथा च—

Verse 172
सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य संपुटिका नास्ति कुतस्तस्य सुभाषितम् ॥
Metre: अनुष्टुप्

अथैकस्मिन्नहनि गोष्ठी-समये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुमारब्धाः । अहो किमद्य सुहृन्न समायातः । किं सिंहादिभिः क्वचिद्व्यापादित उत लुब्धकैरथ वानले प्रपतितो गर्ता-विषमे वा नव-तृण-लौल्यादिति । अथवा साध्विदमुच्यते—

Showing 391 to 400 of 451 verses