प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति । रथ-कारः स्वकां भार्यां सजारां शिरसावहत् ॥
Metre: अनुष्टुप्
मन्त्रिणः प्राहुः-कथमेतत् ?
रक्ताक्षः कथयति- कथा ११ वीरवर-रथकार-तत्-पत्नी-कथा
अस्ति कस्मिंश्चिदधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी । सा पुंश्चली जनापवाद-संयुक्ता । सोऽपि तस्याः परीक्षणार्थं व्यचिन्तयत्-अथ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च—
यदि स्यात्पावकः शीतः प्रोष्णी वा शश-लाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥
Metre: अनुष्टुप्
जानामि चैनां लोक-वचनादसतीम् । उक्तं च—
यच्च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्ड-मध्यगम् ॥
Metre: अनुष्टुप्
एवं सम्प्रधार्य भार्यामवोचत्-प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद्दिनानि लगिष्यन्ति । तत्त्वया किमपि पाथेयं मम योग्यं विधेयम् ।
सापि तद्-वचनं श्रुत्वा हर्षित-चित्ता । औत्सुक्यात्सर्व-कार्याणि सन्त्यज्य सिद्धमन्नं घृत-शर्करा-प्रायमकरोत् । अथवा साध्विदमुच्यते—
दुर्दिवसे घन-तिमिरे वर्षति जलदे महाटवी-प्रभृतौ । पत्युर्विदेश-गमने परम-सुखं जघन-चपलायाः ॥
Metre: आर्या (१२, १८, १२, १५)