स्व-गृहोद्यान-गतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् । किमु दृष्ट-बह्व्-अपाय-प्रतिभय-कान्तार-मध्य-स्थे ॥
Metre: आर्या (१२, १८, १२, १५)
अथ मन्थरको वायसमाह-भो लघुपतनकाहं हिरण्यकश्च तावद्द्वावप्यशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद्गत्वा त्वमरण्यं शोधय यदि कुत्रचित्तं जीवन्तं पश्यसीति ।
तदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत्पल्वल-तीरे चित्राङ्गः कूट-पाश-नियन्त्रितस्तिष्ठति । तं दृष्ट्वा शोक-व्याकुलित-मनास्तमवोचत् । भद्र किमिदम् ? चित्राङ्गोऽपि वायसमवलोक्य विशेषेण दुःखित-मना बभूव । अथवा युक्तमेतत्—
अपि मन्दत्वमापन्नो नष्टो वापीष्ट-दर्शनात् । प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥
Metre: अनुष्टुप्
ततश्च वाष्पावसाने चित्राङ्गो लघुपतनकमाह-भो मित्र संजातोऽयं तावन्मम मृत्युः । तद्युक्तं सम्पन्नं यद्भवता सह मे दर्शनं सञ्जातम् । उक्तं च—
प्राणात्यये समुत्पन्ने यदि स्यान्मित्र-दर्शनं । तद्द्वाभ्यां सुख-दं पश्चाज्जीवतोऽपि मृतस्य च ॥
Metre: अनुष्टुप्
तत्क्षन्तव्यं यन्मया प्रणयात्सुभाषित-गोष्ठीष्वभिहितं । तथा हिरण्यक-मन्थरकौ मम वाक्याद्वाच्यौ ।
अज्ञानाज्ज्ञानतो वापि दुरुक्तं यदुदाहृतम् । मया तत्क्षम्यतामद्य द्वाभ्यामपि प्रसादतः ॥
Metre: अनुष्टुप्
तच्छ्रुत्वा लघुपतनक आह—भद्र न भेतव्यमस्मद्-विधैर्मित्रैर्विद्यमानैः । यावदहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्-पुरुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति । उक्तं च—
सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वं । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलं ॥
Metre: आर्या (१२, १८, १२, १५)