तद्दैवमिति सञ्चिन्त्य त्यजेन्नोद्योगमात्मनः । अनुयोगं विना तैलं तिलानां नोपजायते ॥
Metre: अनुष्टुप्
यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः । तस्य भाग्य-विहीनस्य दत्ता श्रीरपि मार्ज्यते ॥
Metre: अनुष्टुप्
यच्च त्वं वदसि । एतौ पतिष्यतो न वेति । तदप्ययुक्तम् । उक्तं च—
कृत-निश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते । चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥
Metre: अनुष्टुप्
अपरं मूषक-मांसस्य निर्विण्णाहम् । एतौ च मांस-पिण्डौ पतन-प्रायौ दृश्येते । तत्सर्वथा नान्यथा कर्तव्यमिति । अथासौ तदाकर्ण्य मूषक-प्राप्ति-स्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथ वा साध्विदमुच्यते—
तावत्स्यात्सर्व-कृत्येषु पुरुषोऽत्र स्वयं प्रभुः । स्त्री-वाक्याङ्कुश-विक्षुण्णो यावन्नो ध्रियते बलात् ॥
Metre: अनुष्टुप्
अकृत्यं मन्यते कृत्यंअगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं स्त्री-वाक्य-प्रेरितो नरः ॥
Metre: अनुष्टुप्
एवं स तस्य पृष्ठतः स-भार्यः परिभ्रमंश्चिर-कालमनयत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात्पञ्चदशे वर्षे शृगालः स्वभार्यामाह-शिथिलौ च सुबद्धौ च (१४१)इत्यादि ।
तयोस्तत्-पश्चादपि पातो न भविष्यति । तत्तदेव स्व-स्थानं गच्छावः । अतोऽहं ब्रवीमि-शिथिलौ च सुबद्धौ च (१४१)इति ।