श्वेतं पदं शिरसि यत्तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थि-शकलं परिहृत्य यान्ति चाण्डाल-कूपमिव दूरतरं तरुण्यः ॥
Metre: वसन्ततिलका
गात्रं सङ्कुचितं गतिर्विगलिता दन्ताश्च नाशङ्गता दृष्टिर्भ्राम्यति रूपमप्युपहतं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते धिक्कष्टं जरयाभिभूत-पूरुषं पुत्रोऽप्यवज्ञायते ॥
Metre: शार्दूलविक्रीडितम्
अथ कदाचित्सा तेन सहैकशयने पराङ्मुखी यावत्तिष्ठति तावद्गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धमपि तं पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात्पुलकाञ्चित-सर्व-गात्रश्चिन्तयामास-अहो किमेषा मामद्यावगूहते ? यावन्निपुणतया पश्यति तावत्गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्-नूनमेषास्य भयान्मामालिङ्गति इति ज्ञात्वा तं चौरमाह-या ममोद्विजते (१८६)इत्यादि ।
तच्छ्रुत्वा चौरोऽप्याह-हर्तव्यं ते न पश्यामि (१८७)इत्यादि । तस्माच्चौरस्याप्युपकारः श्रेयश्चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायमवध्य इति ।
एतदाकर्ण्यारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! साम्प्रतमेवं स्थिते किं करणीयमिति ?
सोऽब्रवीत्-देव !अवध्योऽयम् । यतः—
शत्रवोऽपि हितार्थैव विवदन्तः परस्परम् । चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम् ॥
Metre: अनुष्टुप्
अरिमर्दनः प्राह-कथमेतत् ?
वक्रनासः कथयति- कथा १० द्रोणाख्य-ब्राह्मण-कथा