पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 361 to 370 of 601 verses
अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावादारभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच्च दृष्ट्वा सहसैव कश्चिच्चौरश्चिन्तितवान्-अहमस्य ब्राह्मणस्य गो-युगमिदमपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत्प्रस्थितस्तावदर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिरुन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद्दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरोऽब्रवीत्-को भवान् ?इति ।

सोऽब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितोऽस्मि ।

अथ जात-प्रत्ययो राक्षसोऽब्रवीत्-भद्र ! षष्ठाह्न-कालिकोऽहम् । अतस्तमेव ब्राह्मणमद्य भक्षयिष्यामि ।

अथ तौ तत्र गत्वैकान्ते कान्लमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्-भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्-भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात्त्वमेनं ब्राह्मणं भक्षय ।

सोऽब्रवीत्-कदाचिदयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात् ।

चौरोऽप्यब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एकोऽप्यन्तरायः स्यात् । तदाहमपि न शक्नोमि गो-युगमपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात्त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद्ब्राह्मणो जजागार ।

अथ तं चौरोऽब्रवीत्-ब्राह्मण ! त्वामेवायं राक्षसो भक्षयितुमिच्छति इति ।

राक्षसोऽप्याह-ब्राह्मण ! चौरोऽयं गो-युगं तेऽपहर्तुमिच्छति ।

एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसादुद्गूर्ण-लगुडेन चौराद्गो-युगं ररक्ष ।

अतोऽहं ब्रवीमि-शत्रवोऽपि हितार्थैव (१९०)इति ।

Showing 361 to 370 of 601 verses