अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावादारभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच्च दृष्ट्वा सहसैव कश्चिच्चौरश्चिन्तितवान्-अहमस्य ब्राह्मणस्य गो-युगमिदमपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत्प्रस्थितस्तावदर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिरुन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद्दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरोऽब्रवीत्-को भवान् ?इति ।
सोऽब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितोऽस्मि ।
अथ जात-प्रत्ययो राक्षसोऽब्रवीत्-भद्र ! षष्ठाह्न-कालिकोऽहम् । अतस्तमेव ब्राह्मणमद्य भक्षयिष्यामि ।
अथ तौ तत्र गत्वैकान्ते कान्लमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्-भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्-भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात्त्वमेनं ब्राह्मणं भक्षय ।
सोऽब्रवीत्-कदाचिदयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात् ।
चौरोऽप्यब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एकोऽप्यन्तरायः स्यात् । तदाहमपि न शक्नोमि गो-युगमपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात्त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद्ब्राह्मणो जजागार ।
अथ तं चौरोऽब्रवीत्-ब्राह्मण ! त्वामेवायं राक्षसो भक्षयितुमिच्छति इति ।
राक्षसोऽप्याह-ब्राह्मण ! चौरोऽयं गो-युगं तेऽपहर्तुमिच्छति ।
एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसादुद्गूर्ण-लगुडेन चौराद्गो-युगं ररक्ष ।
अतोऽहं ब्रवीमि-शत्रवोऽपि हितार्थैव (१९०)इति ।