यथैकेन न हस्तेन तालिका संप्रपद्यते । तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम् ॥
Metre: अनुष्टुप्
पश्य कर्म-वशात्प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यमं विना वक्त्रे प्रविशेन्न कथञ्चन ॥
Metre: अनुष्टुप्
तथा च- उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥
Metre: वसन्ततिलका
तथा च-उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥
स्व-शक्त्या कुर्वतः कर्म न चेत्सिद्धिं प्रयच्छति । नोपालभ्यः पुमांस्तत्र दैवान्तरित-पौरुषः ॥
Metre: अनुष्टुप्
तन्मयावश्यं देशान्तरं गन्तव्यम् ।
इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस्तस्य कदाचिदटव्यां पर्यटतो भगवान्रविरस्तमुपागतः । तत्र च व्याल-भयात्स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत्तिष्ठति तावन्निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्तावशृणोत् ।
तत्रैक आह—भोः कर्तः त्वं किं सम्यङ्न वेत्सि यदस्य सोमिलकस्य भोजनाच्छादनाद् ऋतेऽधिका समृद्धिर्नास्ति । तत्किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् ।
स आह—भोः कर्मन्मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस्त्वदायत्तेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिमवलोकयति तावद्रिक्तं पश्यति ।
ततः साक्षेपं चिन्तयामास । अहो किमेतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद्व्यर्थ-श्रमोऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकमुपार्ज्य भूयोऽपि स्व-स्थानं प्रति प्रस्थितः । यावदर्ध-पथे भूयोऽटवी-गतस्य भगवान्भानुरस्तंजगामाथ सुवर्ण-नाश-भयात्सुश्रान्तोऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह-भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत्किं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किंचिन्नास्ति ।