पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 321 to 330 of 451 verses
Verse 133
यथैकेन न हस्तेन तालिका संप्रपद्यते । तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम् ॥
Metre: अनुष्टुप्

Verse 134
पश्य कर्म-वशात्प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यमं विना वक्त्रे प्रविशेन्न कथञ्चन ॥
Metre: अनुष्टुप्

Verse 135
तथा च- उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥
Metre: वसन्ततिलका

Verse 136
तथा च-उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥

Verse 138
स्व-शक्त्या कुर्वतः कर्म न चेत्सिद्धिं प्रयच्छति । नोपालभ्यः पुमांस्तत्र दैवान्तरित-पौरुषः ॥
Metre: अनुष्टुप्

तन्मयावश्यं देशान्तरं गन्तव्यम् ।

इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस्तस्य कदाचिदटव्यां पर्यटतो भगवान्रविरस्तमुपागतः । तत्र च व्याल-भयात्स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत्तिष्ठति तावन्निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्तावशृणोत् ।

तत्रैक आह—भोः कर्तः त्वं किं सम्यङ्न वेत्सि यदस्य सोमिलकस्य भोजनाच्छादनाद् ऋतेऽधिका समृद्धिर्नास्ति । तत्किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् ।

स आह—भोः कर्मन्मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस्त्वदायत्तेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिमवलोकयति तावद्रिक्तं पश्यति ।

ततः साक्षेपं चिन्तयामास । अहो किमेतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद्व्यर्थ-श्रमोऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकमुपार्ज्य भूयोऽपि स्व-स्थानं प्रति प्रस्थितः । यावदर्ध-पथे भूयोऽटवी-गतस्य भगवान्भानुरस्तंजगामाथ सुवर्ण-नाश-भयात्सुश्रान्तोऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह-भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत्किं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किंचिन्नास्ति ।

Showing 321 to 330 of 451 verses