निर्दोषमपि वित्ताढ्य दोषैर्योजयते नृपः । निधनः प्राप्त-दोषोऽपि सर्वत्र निरुपद्रवः ॥
Metre: अनुष्टुप्
अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा । भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥
Metre: अनुष्टुप्
अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥
Metre: अनुष्टुप्
को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहु-प्रतापार्जितम् । यद्दंष्ट्रानखलाङ्गुल-प्रहरणैः सिंहो वनं गाहते तस्मिनेव हत-द्विपेन्द्र-रुधिरैस्तृष्णां छिनत्त्यात्मनः ॥
Metre: शार्दूलविक्रीडितम्
अर्थ-हीनः परे देशे गतोऽपि यः प्रज्ञावान्भवति स कथञ्चिदपि न सीदति । उक्तं च—
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुव्द्यानां कः परः प्रिय-वादिनाम् ॥
Metre: अनुष्टुप्
तत्प्रज्ञा-निधिर्भवान्न प्राकृत-पुरुष-तुल्यः । अथवा—
उत्साह-सम्पन्नमदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥
Metre: उपजातिः
अपरं प्राप्तोऽप्यर्थः कर्म-प्राप्त्या नश्यति । तदेतावन्ति दिनानि त्वदीयमासीत् । मुहूर्तमप्यनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापह्रियते ।
अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥
Metre: अनुष्टुप्