अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा । अथ प्रातस्तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तमुद्देशमागता । कर्ण-परम्परया श्रुत्वा दण्डपाशक-सुतापि तत्रैवागता । अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम ।
प्राप्तव्यमर्थं प्राह-भोः विश्रब्धं कथय । कीदृशोऽसौ वृत्तान्तः ?अथ सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः इति ।
राज-कन्या स्मृत्वा प्राह-देवोऽपि तं लङ्घयितुं न शक्त इति ।
ततो दण्डपाशक-सुताब्रवीत्-तस्मान्न शोचामि न विस्मयो मे इति ।
तमखिललोक-वृत्तान्तमाकर्ण्य वणिक्-सुताब्रवीत्-यदस्मदीयं न हि तत्परेषामिति ।
ततोऽभय-दानं दत्त्वा राजा पृथक्पृथग्वृत्तान्तान्ज्ञात्वावगत-तत्त्वस्तस्मै प्राप्तव्यमर्थाय स्व-दुहितरं स-बहु-मानं ग्राम-सहस्रेण समं सर्वालङ्कार-परिवार-युतां दत्त्वा त्वं मे पुत्रोऽसीति नगर-विदितं तं यौवराज्येऽभिषिक्तवान् । दण्ड-पासकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता ।
अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुम्बावृतौ तस्मिन्नगरे सम्मान-पुरःसरं समानीतौ । अथ सोऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः । अतोऽहं ब्रवीमि-प्राप्तव्यमर्थं लभते मनुष्यः इति ।
तदेतत्सकलं सुख-दुःखमनुभूय परं विषादमुपागतोऽनेन मित्रेण त्वत्-सकाशमानीतः । तदेतन्मे वैराग्य-कारणम् । मन्थरक आह—भद्र, भवति सुहृदयमसन्दिग्धं यः क्षुत्-क्षामोऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः—
विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात्सर्व-काले च कारयेन्मित्रमुत्तमम् ॥
Metre: अनुष्टुप्
विद्वद्भिः सुहृदामत्र चिह्नैरेतैरसंशयम् । परीक्षा-करणं प्रोक्तं होमाग्नेरिव पण्डितैः ॥
Metre: अनुष्टुप्