पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 281 to 290 of 451 verses
अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा । अथ प्रातस्तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तमुद्देशमागता । कर्ण-परम्परया श्रुत्वा दण्डपाशक-सुतापि तत्रैवागता । अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम ।

प्राप्तव्यमर्थं प्राह-भोः विश्रब्धं कथय । कीदृशोऽसौ वृत्तान्तः ?अथ सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः इति ।

राज-कन्या स्मृत्वा प्राह-देवोऽपि तं लङ्घयितुं न शक्त इति ।

ततो दण्डपाशक-सुताब्रवीत्-तस्मान्न शोचामि न विस्मयो मे इति ।

तमखिललोक-वृत्तान्तमाकर्ण्य वणिक्-सुताब्रवीत्-यदस्मदीयं न हि तत्परेषामिति ।

ततोऽभय-दानं दत्त्वा राजा पृथक्पृथग्वृत्तान्तान्ज्ञात्वावगत-तत्त्वस्तस्मै प्राप्तव्यमर्थाय स्व-दुहितरं स-बहु-मानं ग्राम-सहस्रेण समं सर्वालङ्कार-परिवार-युतां दत्त्वा त्वं मे पुत्रोऽसीति नगर-विदितं तं यौवराज्येऽभिषिक्तवान् । दण्ड-पासकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता ।

अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुम्बावृतौ तस्मिन्नगरे सम्मान-पुरःसरं समानीतौ । अथ सोऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः । अतोऽहं ब्रवीमि-प्राप्तव्यमर्थं लभते मनुष्यः इति ।

तदेतत्सकलं सुख-दुःखमनुभूय परं विषादमुपागतोऽनेन मित्रेण त्वत्-सकाशमानीतः । तदेतन्मे वैराग्य-कारणम् । मन्थरक आह—भद्र, भवति सुहृदयमसन्दिग्धं यः क्षुत्-क्षामोऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः—

Verse 114
विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात्सर्व-काले च कारयेन्मित्रमुत्तमम् ॥
Metre: अनुष्टुप्

Verse 115
विद्वद्भिः सुहृदामत्र चिह्नैरेतैरसंशयम् । परीक्षा-करणं प्रोक्तं होमाग्नेरिव पण्डितैः ॥
Metre: अनुष्टुप्

Showing 281 to 290 of 451 verses