अथ लगुड-हस्तान्राज-पुरुषान्दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्-भोः स्वजनाः ! न शोभनमापतितम् । ततः सर्वैरेक-मती-भूयोत्पतितव्यम् । तैश्च तथानुष्ठितम् ।
अतोऽहं ब्रवीमि-भूतान्यो नानुगृह्णाति (१३३)इति ।
इत्युक्त्वा पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तार-स्वरेण सर्पमस्तौत् । तदा सर्पश्चिरं वल्मीक-द्वारान्तर्-लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभादत्रागतः पुत्र-शोकमपि विहाय । अतः परं तव मम च प्रीतिर्नोचिता । तव पुत्रेण यौवनोन्मादेनाहं ताडितो मया स दृष्टः । कथं मया लगुड-प्रहारो विस्मर्तव्यः । त्वया च पुत्र-शोक-दुःखं कथं विस्मर्तव्यमिति पुनरुक्त्वा विवरान्तर्-गतः । ब्राह्मणश्च मणिं गृहीत्वा पुत्र-बुद्धिं निन्दन्स्व-गृहमागतः । अतोऽहं ब्रवीमि-चितिकां दीपितां पश्य इति । तदस्मिन्हतेऽयत्नादेव राज्यमकण्टकं भवतो भवति ।
तस्यैतद्-वचनं श्रुत्वा क्रूराक्षं पप्रच्छ-भद्र ! त्वं तु किं मन्यसे ?
सोऽब्रवीत्-देव ! निर्दयमेतद्यदनेनाभिहितम् । यत्कारणं शरणागतो न वध्यते सुष्ठु । खल्विदमाख्यानम्—
श्रूयते हि कपोतेन शत्रुः शरणमागतः । पूजितश्च यथा-न्यायं स्वैश्च मांसैर्निमन्त्रितः ॥
Metre: अनुष्टुप्
अरिमर्दनोऽब्रवीत्-कथमेतत् ?
क्रूराक्षः कथयति- कथा ७ कपोत-लुब्धक-कथा
कश्चिद्क्षुद्र-समाचारः प्राणिनां काल-सन्निभः । विचचार महारण्ये घोरः शकुनि-लुब्धकः ॥
Metre: अनुष्टुप्
नैव कश्चित्सुहृत्तस्य न सम्बन्धी न बान्धवः । स तैः सर्वैः परित्यक्तस्तेन रौद्रेण कर्मणा ॥
Metre: अनुष्टुप्