बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि बुद्धिमान् । दत्त्वा हि रक्षयेत्प्राणान्रक्षितैस्तैर्धनं पुनः ॥
Metre: अनुष्टुप्
तच्छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं मामाशङ्कमानेनेमां दशां नीतः । तत्तव पादौ साम्प्रतं मे शरणं । किं बहुना विज्ञप्तेन ? यावदहं प्रचलितुं शक्नोमि तावत्त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति ।
अथारिमर्दनस्तदाकर्ण्य पितृ-पितामह-क्रमागत-मन्त्रिभिः सार्धं मन्त्रयांचक्रे । तस्य च पञ्च मन्त्रिणः । तद्यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश्चेति । तत्रादौ रक्ताक्षमपृच्छत्-भद्र !एष तावत्तस्य रिपोर्मन्त्री मम हस्त-गतः । तत्किं क्रियताम् ?इति ।
रक्ताक्ष आह—देव ! किमत्र चिन्त्यते ?अविचारितमयं हन्तव्यः, यतः—
हीनः शत्रुर्निहन्तव्यो यावन्न बलवान्भवेत् । प्राप्त-स्व-पौरुष-बलः पश्चाद्भवति दुर्जयः ॥
Metre: अनुष्टुप्
किं च स्वयमुपागता श्रीस्त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च—
कालो हि सकृदभ्येति यन्नरं काल-काङ्क्षिणम् । दुर्लभः स पुनस्तेन काल-कर्माचिकीर्षता ॥
Metre: अनुष्टुप्
कश्चित्क्षुद्र-समाचारः प्राणिनां काल-सन्निभः । विचचार महारण्ये घोरः शुनि-लुब्धकः ॥
Metre: अनुष्टुप्
अरिमर्दनः प्राह-कथमेतत् ?