पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 261 to 270 of 327 verses
वानर आह—कथमेतत् ?

मकरोऽब्रवीत्- कथा १२ हालिक-दम्पती-कथा

कस्मिंश्चिदधिष्ठाने हालिक-दम्पती प्रतिवसतः स्म । सा च हालिक-भार्या पत्युर्वृद्ध-भावात्सदैवान्य-चित्ता न कथञ्चिद्गृहे स्थैर्यमालम्बते । केवलं पर-पुरुषानन्वेषमाणा परिभ्रमति । अथ केनचित्पर-वित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च-सुभगे ! मृत-भार्योऽहम् । त्वद्-दर्शनेन स्मर-पीडितश्च । तद्दीयतां मे रति-दक्षिणा ।

ततस्तयाभिहितम्-भोः सुभग ! यद्येवं तदस्ति मे पत्युः प्रभूतं धनम् । स च वृद्धत्वात्प्रचलितुमप्यसमर्थः । ततस्तद्-धनमादायाहमागच्छामि । येन त्वया सहान्यत्र गत्वा यथेच्छया रति-सुखमनुभविष्यामि ।

सोऽब्रवीत्-रोचते मह्यमप्येतत् । तत्प्रत्यूषेऽत्र स्थाने शीघ्रमेव समागन्तव्यम्, येन शुभतरं किञ्चिन्नगरं गत्वा त्वया सह जीव-लोकः सफलीक्रियते ।

सापि तथेति प्रतिज्ञाय प्रहसित-वदना स्व-गृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तमादाय प्रत्यूष-समये तत्-कथित-स्थानमुपाद्रवत् । धूर्तोऽपि तामग्रे विधाय दक्षिणां दिशमाश्रित्य सत्वर-गतिः प्रस्थितः ।

एवं तयोर्व्रजतोर्योजन-द्वय-मात्रेणाग्रतः काचिन्नदी समुपस्थिता । तां दृष्ट्वा धूर्तश्चिन्तयामास-किमहमनया यौवन-प्रान्ते वर्तमानया करिष्यामि । किं च कदाप्यस्याः पृष्ठतः कोऽपि समेष्यति । तन्मे महाननर्थः स्यात् । तत्केवलमस्या वित्तमादाय गच्छामि ।

इति निश्चित्य तामुवाच-प्रिये ! सुदुस्तरेयं महानदा । तदहं द्रव्य-मात्रां पारे धृत्वा समागच्छामि । ततस्त्वामेकाकिनीं स्व-पृष्ठमारोप्य सुखेनोत्तारयिष्यामि ।

सा प्राह-सुभग !एवं क्रियताम् । इत्युक्त्वाशिषं वित्तं तस्मै समर्पयामास । अथ तेनाभिहितं-भद्रे ! परिधानाच्छादन-वस्त्रमपि समर्पय । येन जल-मध्ये निःशङ्कं व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्र-युगलं चादाय यथाचिन्तित-विषयं गतः ।

सापि कण्ठ-निवेशित-हस्त-युगला सोद्वेगा नदी-पुलिन-देश उपविष्टा यावत्तिष्ठति तावदेतस्मिन्नन्तरे काचिच्छृगालिका मांस-पिण्ड-गृहीत-वदना तत्राजगाम । आगत्य च यावत्पश्यति, तावन्नदी महान्मत्स्यः सलिलान्निष्क्रम्य बहिः स्थित आस्ते । एवं च दृष्ट्वा सा मांस-पिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरंआकाशादावतीर्थं कोऽपि प्रत्युपाद्रवत् । अत्रान्तरमाकाशादवतीर्य कोऽपि गृध्रस्तं मांस-पिण्डमादाय पुनः खमुत्पतात । मत्स्योऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिका व्यर्थ-श्रमा गृध्रमवलोकयन्ती तया नग्निकया स-स्मितमभिहिता—

Showing 261 to 270 of 327 verses