सतां वचनमादिष्टं मदेन न करोति यः । स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥
Metre: अनुष्टुप्
सोऽब्रवीत्- कथा १३उज्ज्वलक-रथकार-कथा
कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश्चिन्तितवान्-अहो ! धिगियं दरिद्रतास्मद्-गृहे । यतः सर्वोऽपि जनः स्व-कर्मणैव रतस्तिष्ठति । अस्मदीयः पुनर्व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्व-लोकानां चिरन्तनाश्चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत्किं मदीयेन रथकारत्वेन प्रयोजनम् ?इति चिन्तयित्वा देशान्निष्क्रान्तः ।
यावत्किञ्चिद्वनं गच्छति तावद्गह्वराकार-वन-गहन-मध्ये सूर्यास्तमनवेलायां स्व-यूथाद्भ्रष्टां प्रसव-वेदनया पीड्यमानामुष्ट्रीमपश्यत् । स च दासेरक-युक्तामुष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर्भक्षितानि । पश्चात्पल्लव-भक्षण-प्रभावादहर्निशं पीवर-तनुरुष्ट्री सञ्जाता । सोऽपि दासेरको महानुष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्व-कुटुम्बं परिपालयति ।
अथ रथकारेण वल्लभत्वाद्दासेरक-ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद्रथकारो व्यचिन्तयत्-अहो ! किमन्यैर्दुष्कृत-कर्मभिः । यावन्ममैतस्मादेवोष्ट्रापरिपालनादस्य कुटुम्बस्य भव्यं सञ्जातम् । तत्किमन्येन व्यापारेण ?
एवं विचिन्त्य गृहमागत्य प्रियामाह-भद्रे ! समीचीनोऽयं व्यापारः । तव सम्मतिश्चेत्कुतोऽपि धनिकात्किञ्चिद्द्रव्यमादाय मया गुर्जर-देशे गन्तव्यं कलभ-ग्रहणाय । तावत्त्वयैतौ यत्नेन रक्षणीयौ । यावदहमपरामुष्ट्रीं नीत्वा समागच्छामि ।
ततश्च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहमागतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततस्तेन महदुष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभमेकं प्रयच्छति । प्रतिवर्षमन्यच्चाहर्निशं दुग्ध-पानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेवोष्ट्री-करभ-व्यापारं कुर्वन्सुखेन तिष्ठति ।
अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमल-वल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तन-समये मन्दं मन्दं लीलया गृहमागच्छन्ति । स च पूर्व-दासेरको मदातिरेकात्पृष्ठ आगत्य मिलति । ततस्तैः कलभैरभिहितम्-अहो ! मन्द-मतिरयं दासेरको यथा यूथाद्भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्नागच्छति । यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन्नूनं मृत्युमवाप्स्यति ।
अथ तस्य तद्-वनं गाहमानस्य कश्चित्सिंहो घण्टा-रवमाकर्ण्य समायातः । यावदवलोकयति, तावदुष्ट्री-दासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीडां कुर्वन्वल्लरीश्चरन्यावत्तिष्ठति, तावदन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः । सोऽपि वनान्निष्क्रम्य यावद्दिशोऽवलोकयति, तावन्न कञ्चिन्मार्गं पश्यति वेत्ति च । यूथाद्भ्रष्टो मन्दं मन्दं बृहच्-छब्दं कुर्वन्यावत्कियद्-दूरं गच्छति, तावत्तच्-छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽयं व्यवस्थितः । ततो यावदुष्ट्रः समीपमागतः, तावत्सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश्च ।