पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 281 to 290 of 327 verses
Verse 74
सतां वचनमादिष्टं मदेन न करोति यः । स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥
Metre: अनुष्टुप्

मकर आह—कथमेतत् ?

सोऽब्रवीत्- कथा १३उज्ज्वलक-रथकार-कथा

कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश्चिन्तितवान्-अहो ! धिगियं दरिद्रतास्मद्-गृहे । यतः सर्वोऽपि जनः स्व-कर्मणैव रतस्तिष्ठति । अस्मदीयः पुनर्व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्व-लोकानां चिरन्तनाश्चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत्किं मदीयेन रथकारत्वेन प्रयोजनम् ?इति चिन्तयित्वा देशान्निष्क्रान्तः ।

यावत्किञ्चिद्वनं गच्छति तावद्गह्वराकार-वन-गहन-मध्ये सूर्यास्तमनवेलायां स्व-यूथाद्भ्रष्टां प्रसव-वेदनया पीड्यमानामुष्ट्रीमपश्यत् । स च दासेरक-युक्तामुष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर्भक्षितानि । पश्चात्पल्लव-भक्षण-प्रभावादहर्निशं पीवर-तनुरुष्ट्री सञ्जाता । सोऽपि दासेरको महानुष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्व-कुटुम्बं परिपालयति ।

अथ रथकारेण वल्लभत्वाद्दासेरक-ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद्रथकारो व्यचिन्तयत्-अहो ! किमन्यैर्दुष्कृत-कर्मभिः । यावन्ममैतस्मादेवोष्ट्रापरिपालनादस्य कुटुम्बस्य भव्यं सञ्जातम् । तत्किमन्येन व्यापारेण ?

एवं विचिन्त्य गृहमागत्य प्रियामाह-भद्रे ! समीचीनोऽयं व्यापारः । तव सम्मतिश्चेत्कुतोऽपि धनिकात्किञ्चिद्द्रव्यमादाय मया गुर्जर-देशे गन्तव्यं कलभ-ग्रहणाय । तावत्त्वयैतौ यत्नेन रक्षणीयौ । यावदहमपरामुष्ट्रीं नीत्वा समागच्छामि ।

ततश्च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहमागतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततस्तेन महदुष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभमेकं प्रयच्छति । प्रतिवर्षमन्यच्चाहर्निशं दुग्ध-पानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेवोष्ट्री-करभ-व्यापारं कुर्वन्सुखेन तिष्ठति ।

अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमल-वल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तन-समये मन्दं मन्दं लीलया गृहमागच्छन्ति । स च पूर्व-दासेरको मदातिरेकात्पृष्ठ आगत्य मिलति । ततस्तैः कलभैरभिहितम्-अहो ! मन्द-मतिरयं दासेरको यथा यूथाद्भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्नागच्छति । यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन्नूनं मृत्युमवाप्स्यति ।

अथ तस्य तद्-वनं गाहमानस्य कश्चित्सिंहो घण्टा-रवमाकर्ण्य समायातः । यावदवलोकयति, तावदुष्ट्री-दासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीडां कुर्वन्वल्लरीश्चरन्यावत्तिष्ठति, तावदन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः । सोऽपि वनान्निष्क्रम्य यावद्दिशोऽवलोकयति, तावन्न कञ्चिन्मार्गं पश्यति वेत्ति च । यूथाद्भ्रष्टो मन्दं मन्दं बृहच्-छब्दं कुर्वन्यावत्कियद्-दूरं गच्छति, तावत्तच्-छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽयं व्यवस्थितः । ततो यावदुष्ट्रः समीपमागतः, तावत्सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश्च ।

Showing 281 to 290 of 327 verses