आसीत्कस्मिंश्चिद्देशे महा-चतुरको नाम शृगालः । तेन कदाचिदरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात्परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसर इतश्चेतश्च विचरन्कश्चित्सिंहस्तत्रैव प्रदेशे समाययौ ।
अथ सिंहं समागतं दृष्ट्वा स क्षिति-तल-विन्यस्त-मौलि-मण्डलः संयोजित-कर-युगलः स-विनयमुवाच-स्वामिन् ! त्वदीयोऽहं लागुडिकः स्थितस्त्वद्-अर्थे गजमिमं रक्षामि । तदेनं भक्षयतु स्वामी ।
तं प्रणतं दृष्ट्वा सिंहः प्राह-भोः ! नाहमन्येन हतं सत्त्वं कदाचिदपि भक्षयामि । तत्तवैव गजोऽयं मया प्रसादीकृतः ।
तच्छ्रुत्वा शृगालः सानन्दमाह-युक्तमिदं स्वामिनो निज-भृत्येषु । उक्तं च यतः—
अन्त्यावस्थोऽपि महान्स्वामि-गुणान्न जहाति शुद्धतया । न श्वेत-भावमुज्झति शङ्खः शिखि-भुक्त-मुक्तोऽपि ॥
Metre: उद्गीति (१२, १५, १२, १८)
अथ सिंहे गते कश्चिद्व्याघ्रः समाययौ । तमपि दृष्ट्वासौ व्यचिन्तयत्-अहो !एकस्तावद्दुरात्मा प्रणिपातेनापवाहितः । तत्कथमिदानीमेनमपवाहयिष्यामि ? नूनं शूरोऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः—
न यत्र शक्यते कर्तुं साम दानमथापि वा । भेदस्तत्र प्रयोक्तव्यो यतः स वश-कारकः ॥
Metre: अनुष्टुप्
किं च सर्व-गुण-सम्पन्नोऽपि भेदेन बध्यते । उक्तं च यतः—
अन्तः-स्थेनाविरुद्धेन सुवृत्तेनातिचारुणा । अन्तर्-भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥
Metre: अनुष्टुप्
एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वादुन्नत-कन्धरः स-सम्भ्रममुवाच-माम ! कथमत्र भवान्मृत्यु-मुखे प्रविष्टः । येनैष गजः सिंहेन व्यापादितः । स च मामेतद्रक्षणं नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्-यदि कश्चिदिह व्याघ्रः समायाति, त्वया सुगुप्तं मामावेदनीयम् । येन वनमिदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः । तद्-दिनादारभ्य व्याघ्रान्प्रति प्रकुपितोऽस्मि ।