तच्छ्रुत्वा व्याघ्रः सन्त्रस्तमाह-भो भागिनेय ! देहि मे प्राण-दक्षिणाम् । त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया । एवमभिधाय सत्वरं पलायाञ्चक्रे ।
अथ गते व्याघ्रे तत्र कश्चिद्द्वीपी समायातः । तमपि दृष्ट्वासौ व्यचिन्तयत्-दृढ-दंष्ट्रोऽयं चित्रकः । तदस्य पार्श्वादस्य गजस्य यथा चर्म-च्छेदो भवति तथा करोमि । एवं निश्चित्य तमप्युवाच-भो भगिनी-सुत ! किमिति चिराद्दृष्टोऽसि । कथं च बुभुक्षित इव लक्ष्यसे ? तदतिथिरसि मे । एष गजः सिंहेन हतस्तिष्ठति । अहं चास्य तद्-आदिष्टो रक्षा-पालः । परं तथापि यावत्सिंहो न समायाति, तावदस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज ।
स आह—माम, तदेवं तन्न कार्यं मे मांसाशनेन, यतो जीवन्नरो भद्र-शतानि पश्यति । उक्तं च-यच्छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच्च यत् (२३)इत्यादि । तत्सर्वथा तदेव भुज्यते यदेव परिणमति । तदहमितोऽपयास्यामि ।
शृगाल आह—भो अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतोऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते दीव्पिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्-भो भगिनी-सुत ! गम्यताम् । एष सिंहः समायाति ।
तच्छ्रुत्वा चित्रको दूरं प्रणष्टः । अथ यावदसौ तद्-भेद-कृत-द्वारेण किञ्चिन्मांसं भक्षयति, तावदतिसङ्क्रुद्धोऽपरः शृगालः समाययौ । अथ तमात्म-तुल्य-पराक्रमं दृष्ट्वा-उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् (७८)इति श्लोकं पठन्तद्-अभिमुख-कृत-प्रयाणः स्व-दंष्ट्राभिस्तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिर-कालं हस्ति-मांसं बुभुजे ।
एवं त्वमपि तं रिपुं स्व-जातीयं युद्धेन परिभूय दिशो-भागं कुरु । नो चेत्पश्चाद्बद्ध-मूलादस्मात्त्वमपि विनाशमवाप्स्यसि । उक्तं च यतः—
सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम् ॥
Metre: अनुष्टुप्
सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः । एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते ॥
Metre: अनुष्टुप्