देव ! कस्मिंश्चिद्वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्चिद्ब्राह्मणः समासादितः । ततस्तस्य स्कन्धमारुह्य प्रोवाच-भो अग्रेसरो गम्यताम् ।
ब्राह्मणोऽपि भय-त्रस्त-मनास्तमादाय प्रस्थितः । अथ तस्य कमलोदर-कोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसमपृच्छत्-भोः ! किमेवं-विधौ ते पादावतिकोमलौ ?
राक्षस आह—भोः ! व्रतमस्ति, नाहमार्द्र-पादो भूमिं स्पृशामि ।
ततस्तच्छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस्तत्-सरः प्राप्तः । ततो राक्षसेनाभिहितं-भोः ! यावदहं स्नानं कृत्वा देवतार्चन-विधिं विधायागच्छामि तावत्त्वयातः स्थानादन्यत्र न गन्तव्यम् ।
तथानुष्ठिते दिव्जश्चिन्तयामास-नूनं देवतार्चन-विधेरूर्ध्वं मामेष भक्षयिष्यति । तद्द्रुततरं गच्छामि, येनैष आर्द्र-पादो न मम पृष्ठमेष्यति ।
तथानुष्ठिते राक्षसो व्रत-भङ्ग-भयात्तस्य पृष्ठं न गतः । अतोऽहं ब्रवीमि-पृच्छकेन सदा भाव्यमिति ।
अथ तेभ्यस्तच्छ्रुत्वा-राजा द्विजानाहूय प्रोवाच-भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना, तत्किं तस्याः प्रतिविधानमस्ति, न वा ?
हीनाङ्गी वाधिकाङ्गी वा या भवेत्कन्यका नृणाम् । भर्तुः स्यात्सा विनाशाय स्व-शील-निधनाय च ॥
Metre: अनुष्टुप्
या पुनस्त्रिस्तनी कन्या याति लोचन-गोचरम् । पितरं नाशत्येव सा द्रुतं नात्र संशयः ॥
Metre: अनुष्टुप्
तस्मादस्या दर्शनं परिहरतु देवः । तथा यदि कश्चिदुद्वाहयति, तदेनां तस्मै दत्त्वा, देश-त्यागेन स नियोजयितव्यः इति । एवं-कृते लोक-द्वयाविरुद्धता भवति ।