सुवर्णसिद्धिराह-भोः, सत्यमेतद्यदि गम्य-स्थाने शक्तिर्भवति । एतत्पुनर्मनुष्याणामगम्य-स्थानम् । नास्ति कस्यापि त्वामुन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाहमेतज्जानामि यत्द्राग्गच्छामि मा कश्चिन्ममाप्यनर्थो भवेदिति । यतः—
यादृशी वदन-च्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परैति स जीवति ॥
Metre: अनुष्टुप्
सोऽब्रवीत्- कथा १० विकाल-वानर-कथा
कस्मिंश्चिन्नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व-लक्षण-सम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद्राक्षसो जिहीर्षति । रात्रावागत्योपभुङ्क्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्-समये रक्षः-सान्निध्यजामवस्थामनुभवति कम्पादिभिः ।
एकमतिक्रामति काले कदाचित्स राक्षसो मध्य-निशायां गृह-कोणे स्थितः । सापि राज-कन्या स्व-सखीमुवाच-सखि ! पश्यैष विकालः समये नित्यमेव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ?
तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्-नूनं यथाहं तथान्योऽपि कश्चिद्विकाल-नामास्या हरणाय नित्यमेवागच्छति । परं सोऽप्येनां हर्तुं न शक्नोति । तत्तावदश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि । किं-रूपः स किं-प्रभावश्चेति ?एवं राक्षसोऽश्व-रूपं कृत्वाश्वानां मध्ये तिष्ठति ।
तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिदश्व-चौरः प्रविष्टः । स च सर्वानश्वानवलोक्य तं राक्षसमश्वतमं विज्ञायाधिरूढः ।
अत्रान्तरे राक्षसश्चिन्तयामास-नूनमेष विकाल-नामा मां चौरं मत्वा कोपान्निहन्तुमागतः । तत्किं करोमि ?एवं चिन्तयन्सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भय-त्रस्त-मनाः प्रधावितुमारब्धः ।
चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्धवान् । स तु वेगाद्वेगतरं गच्छति । अथ तं तथागणित-खलीनाकर्षणं मत्वा चौरश्चिन्तयामास-अहो नैवं-विधा वाजिनो भवन्त्यगणित-खलीनाः । तन्नूनमनेनाश्व-रूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित्पांसुलं भूमि-देशमवलोकयामि तदात्मानं तत्र पातयामि । नान्यथा मे जीवितव्यमस्ति ।