अथ भूभुजा तदाकर्ण्य, स वानरः समाहूतः । पृष्टश्च-भो यूथाधिप ! किं सत्यमेतत् ? रत्न-माला-सनाथं सरोऽस्ति क्वापि ?
कपिराह-स्वामिन् !एष प्रत्यक्षतया मत्-कण्ठ-स्थितया रत्न-मालया प्रत्ययस्ते । तद्यदि रत्न-मालया प्रयोजनं तन्मया सह कमपि प्रेषय, येन दर्शयामि ।
तच्छ्रुत्वा नृपतिराह-यद्येवं तदहं स-परिजनः स्वयमेष्यामि, येन प्रभूता रत्न-माला उत्पद्यते ।
तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः । वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीति-पूर्वमानीयते । अथवा साध्विदमुच्यते—
तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्वपि ॥
Metre: अनुष्टुप्
इच्छति शती सहस्रं सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते ॥
Metre: अनुष्टुप्
जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः । जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥
Metre: अनुष्टुप्
अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानमुवाच-देव !अत्रार्धोदिते सूर्येऽन्तः-प्रविष्टानां सिद्धिर्भवति तत्सर्वोऽपि जन एकदैव प्रविशतु । त्वया पुनर्मया सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानमासाद्य, प्रभूतास्ते रत्न-माला दर्शयामि ।