अथ सोऽपि वानर-यूथपस्तं पुत्र-पौत्र-भ्रातृ-सुत-भागिनेयादि-सङ्क्षयं ज्ञात्वा विषादमुपगतः । सन्त्यक्ताहार-क्रियो वनाद्वनं पर्यटति । अचिन्तयच्च-कथमहं तस्य नृपापसदयानृणता-कृत्येनापकृत्यं करिष्यामि । उक्तं च—
मर्षयेद्धर्षणां योऽत्र वंशजां पर-निर्मिताम् । भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः ॥
Metre: अनुष्टुप्
अथ तेन वृद्ध-वानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद्यावत्सूक्ष्मेक्षिकयावलोकयति तावद्वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशोऽस्ति न निष्क्रमणम् । ततश्चिन्तितम्-नूनमत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालमादाय दूरस्थोऽपि जलं पिबामि ।
तथानुष्ठिते तन्-मध्याद्राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कण्ठस्तमुवाच-भोः !अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन्नास्ति धूर्ततरस्त्वत्-समोऽन्यो यः पानीयमनेन विधिना पिबति । ततस्तुष्टोऽहं, प्रार्थयस्व हृदय-वाञ्छितम् ।
कपिराह-भोः ! कियती मे भक्षण-शक्तिः ?
स आह—शत-सहस्रायुत-लक्षाण्यपि जल-प्रविष्टानि भक्षयामि । बाह्यतः शृगालोऽपि मां धर्षयति ।
वानर आह—अस्ति मे केनचिद्भूपतिना सहात्यन्तं वैरम् । यद्येनां रत्न-मालां मे प्रयच्छसि, तत्परिवारमपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि ।
सोऽपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह-भो मित्र ! यत्समुचितं भवति तत्कर्तव्यमिति ।
वानरोऽपि रत्न-माला-विभूषित-कण्ठो वृक्ष-प्रासादेषु परिभ्रमन्जनैर्दृष्टः । पृष्टश्च-भो यूथप ! भवानियन्तं कालं कुत्र स्थितः ? भवता ईदृग्रत्न-माला कुत्र लब्धा ? दीप्त्या सूर्यमपि तिरस्करोति ।
वानरः प्राह-अस्ति कुत्रचिदरण्ये गुप्ततरं महत्सरो धनद-निर्मितम् । तत्र सूर्येऽर्धोदिते रवि-वारे यः कश्चिन्निमज्जति, स धनद-प्रसादादीदृग्-रत्न-माला-विभूषित-कण्ठो निःसरति ।