या भार्या दुष्ट-चरित्रा सततं कलह-प्रिया । भार्या-रूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥
Metre: अनुष्टुप्
तस्मात्सर्व-प्रयत्नेन नामापि परिवर्जयेत् । स्त्रीणामिह हि सर्वासां य इच्छेत्सुखमात्मनः ॥
Metre: अनुष्टुप्
यद्-अन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्-बहिः । यद्-बहिस्तन्न कुर्वन्ति विचित्र-चरिताः स्त्रियः ॥
Metre: अनुष्टुप्
के नाम न विनश्यन्ति मिथ्या-ज्ञानान्नितम्बिनीम् । रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा ॥
Metre: अनुष्टुप्
अन्तर्-विष-मया ह्येता बहिश्चैव मनोरमाः । गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥
Metre: अनुष्टुप्
ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः । न वशं योषितो यान्ति न दानैर्न च संस्तवैः ॥
Metre: अनुष्टुप्
आस्तां तावत्किमन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम् ॥
Metre: अनुष्टुप्
रूक्षायां स्नेह-सद्-भावं कठोरायां सुमार्दवम् । नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥
Metre: अनुष्टुप्
मकर आह—भो मित्र !अस्त्वेतत् । परं किं करोमि ? ममानर्थ-द्वयमेतत्सञ्जातम् । एकस्तावद्गृह-भङ्गः । अपरस्त्वद्-विधेन मित्रेण सह चित्त-विश्लेषः । अथवा भवत्येवं दैव-योगात् । उक्तं च यतः—
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाभूज्जारो न भर्ता च किं निरीक्षसि नग्निके ॥
Metre: अनुष्टुप्