सोऽपि रथकारो मूर्खस्तस्यास्तद्-वचनमाकर्ण्य पुलकाङ्कित-तनुः शय्या-तलान्निष्क्रम्य तामुवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! साधु !अहं दुर्जन-वचन-शङ्कित-हृदयस्त्वत्-परीक्षार्थं ग्रामान्तर-व्याजं कृत्वात्र निभृतं खट्वा-तले लीनः स्थितः । तदेहि,आलिङ्गय माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यदेवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । मद्-आयुर्-वृद्धि-कृतेऽपमृत्यु-विनाशार्थं च त्वमेवं कृतवती । तामेवमुक्त्वा स-स्नेहमालिङ्गितवान् । स्व-स्कन्धे तामारोप्य तमपि देवदत्तमुवाच-भोः महानुभाव ! मत्-पुण्यैस्त्वमिहागतः । त्वत्-प्रसादात्प्राप्तामद्य मया वर्ष-शत-प्रमाणमायुः । ततस्त्वमपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्ननिच्छन्तमपि देवदत्तं बलादालिङ्ग्य स्कन्धे समारोपितवान् । ततश्च तूर्य-ध्वनि-च्छन्देन नृत्यन्सकल-गृह-द्वारेषु बभ्राम ।
अतोऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (४९) । तन्मूढ ! दृष्ट-विकारस्त्वम्, तत्कथं तत्र गृहं गच्छामि । अथवा यन्मां त्वं विश्वासयसि तत्ते दोषो नास्ति, यतीदृशी स्वभाव-दुष्टा युष्मज्-जातिर्या शिष्ट-सङ्गादपि सौम्यत्वं न याति । अथवा स्वभावोऽयं दुष्टानाम् । उक्तं च—
सद्भिः सम्बोध्यमानोऽपि दुरात्मा पाप-पौरुषः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥
Metre: अनुष्टुप्
तन्मूर्ख ! स्त्री-लुब्ध ! स्त्री-जित !अन्येऽपि ये त्वद्-विधा भवन्ति ते स्व-कार्यं विभवं मित्रं च परित्यजन्ति तत्-कृते । उक्तं च—
या ममोद्विजते नित्यं साद्य मामवगूहते । प्रिय-कारक भद्रं ते यन्ममास्ति हरस्व तत् ॥
Metre: अनुष्टुप्
अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम महाधनो वृद्ध-वणिक् । तेन मृत-भार्येण कामोपहत-चेतसा काचिन्निर्धन-वणिक्-सुता प्रभूतं वित्तं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुमपि न शशाक । अथवा साध्विदमुच्यते—
श्वेतं पदं शिरसि यत्तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थि-शकलं परिहृत्य यान्ति चाण्डाल-कूपमिव दूरतरं तरुण्यः ॥
Metre: वसन्ततिलका