गात्रं सङ्कुचितं गति-विगलिता दन्ताश्च नाशं गताह्दृष्टिर्भ्राम्यति रूपमेव ह्रसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते हा कष्टं जरयाभिभूत-पुरुषः पुत्रैरवज्ञायते ॥
Metre: उपजातिः
अथ कदाचित्सा तेन सहैक-शयने पराङ्-मुखी यावत्तिष्ठति तावत्तस्य गृहे चौरः प्रविष्टः । सापि तं चौरमवलोक्य भय-व्याकुला वृद्धमपि पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात्पुलकाङ्कित-सर्व-गात्रश्चिन्तयामास-अहो ! किमेषा मामद्यावगूहते । अहो चित्रमेतत् ! ततश्च यावन्निपुणतयावलोकयति तावत्चौरः प्रविष्टः कोणैक-देशे तिष्ठति । पुनरप्यचिन्तयत्-नूनमेषा चौरस्य भयान्मामालिङ्गति । तज्ज्ञात्वा चौरमाह-या ममोद्विजते नित्यं साद्य (५५)इति । भूयोऽपि निर्गच्छन्तमवादीत्-भो चोर ! नित्यमेव त्वया रात्रावागन्तव्यं मदीयोऽयं विभवस्त्वदीय इति ।
अतोऽहं ब्रवीमि-या ममोद्विजते इत्यादि । किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् ।
अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्-भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद्विपन्ना । एवं तद्-वज्र-पात-सदृश-वचनमाकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितमेवं चकार-अहो किमिदं सञ्जातं मे मन्द-भागस्य । उक्तं च—
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणी-हीनं कान्तारान्नातिरिच्यते ॥
Metre: अनुष्टुप्
वृक्ष-मूलेऽपि दयिता यत्र तिष्ठति तद्गृहम् । प्रासादोऽपि तया हीनोऽरण्य-सदृशः स्मृतः ॥
Metre: अनुष्टुप्
माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
Metre: अनुष्टुप्
तन्मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रत्यहं तु स्त्री-वियोगाद्वैश्वानर-प्रवेशं करिष्यामि । तन्मूढ !आनन्देऽपि जाते त्वं विषादं गतः । तादृग्-भार्यायां मृतायामुत्सवः कर्तुं युज्यते । उक्तं च यतः—