पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 241 to 250 of 327 verses
तथा च—

Verse 57
गात्रं सङ्कुचितं गति-विगलिता दन्ताश्च नाशं गताह्दृष्टिर्भ्राम्यति रूपमेव ह्रसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते हा कष्टं जरयाभिभूत-पुरुषः पुत्रैरवज्ञायते ॥
Metre: उपजातिः

अथ कदाचित्सा तेन सहैक-शयने पराङ्-मुखी यावत्तिष्ठति तावत्तस्य गृहे चौरः प्रविष्टः । सापि तं चौरमवलोक्य भय-व्याकुला वृद्धमपि पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात्पुलकाङ्कित-सर्व-गात्रश्चिन्तयामास-अहो ! किमेषा मामद्यावगूहते । अहो चित्रमेतत् ! ततश्च यावन्निपुणतयावलोकयति तावत्चौरः प्रविष्टः कोणैक-देशे तिष्ठति । पुनरप्यचिन्तयत्-नूनमेषा चौरस्य भयान्मामालिङ्गति । तज्ज्ञात्वा चौरमाह-या ममोद्विजते नित्यं साद्य (५५)इति । भूयोऽपि निर्गच्छन्तमवादीत्-भो चोर ! नित्यमेव त्वया रात्रावागन्तव्यं मदीयोऽयं विभवस्त्वदीय इति ।

अतोऽहं ब्रवीमि-या ममोद्विजते इत्यादि । किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् ।

अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्-भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद्विपन्ना । एवं तद्-वज्र-पात-सदृश-वचनमाकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितमेवं चकार-अहो किमिदं सञ्जातं मे मन्द-भागस्य । उक्तं च—

Verse 58
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणी-हीनं कान्तारान्नातिरिच्यते ॥
Metre: अनुष्टुप्

अन्यच्च—

Verse 59
वृक्ष-मूलेऽपि दयिता यत्र तिष्ठति तद्गृहम् । प्रासादोऽपि तया हीनोऽरण्य-सदृशः स्मृतः ॥
Metre: अनुष्टुप्

Verse 60
माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
Metre: अनुष्टुप्

तन्मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रत्यहं तु स्त्री-वियोगाद्वैश्वानर-प्रवेशं करिष्यामि । तन्मूढ !आनन्देऽपि जाते त्वं विषादं गतः । तादृग्-भार्यायां मृतायामुत्सवः कर्तुं युज्यते । उक्तं च यतः—

Showing 241 to 250 of 327 verses