पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 221 to 230 of 327 verses
Verse 51
यदि स्यात्पावकः शीतः प्रोष्णो वा शश-लाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥
Metre: अनुष्टुप्

यथापि शुद्धामशुद्धां वापि जानामि लोक-वचनात् । उक्तं च—

Verse 52
यन्न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्ड-मध्यगम् ॥
Metre: अनुष्टुप्

एवं सम्प्रधार्य तामवोचत-प्रिये,अहं प्रातर्ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल्लगिष्यन्ति । तत्त्वया किञ्चित्पाथेयं मम योग्यं कार्यम् ।

सापि तदाकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि सन्त्यज्य सिद्धमन्नं घृत-शर्करा-प्रायमकरोत् । अथवा साध्विदमुच्यते—

Verse 53
दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु । पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः ॥

अथासौ प्रत्यूषे उत्थाय स्व-गृहान्निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-सत्कारं कुर्वाणा कथञ्चित्तं दिवसमत्यवाहयत् । ततश्च पूर्व-परिचितं विट-गृहं गत्वा तमभ्यर्थोक्तवती यद्-ग्रामान्तरं गतः स दुरात्मा मे पतिः । तदद्य त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् ।

तथानुष्ठिते स रथकारोऽप्यरण्ये दिनमतिवाह्य प्रदोषे स्व-गृहमपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिन्तयत्-किमेनमुत्थाय विनाशयाम्यथवा द्वावप्येतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच्चेष्टितमस्याः शृणोमि चानेन सहालापान् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलमारूढा । तस्यास्तच्-छयनमारोहन्त्या रथकार-शरीरे पादो लग्नः । ततो व्यचिन्तयत्-नूनमेतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम् । तत्-स्त्री-चरित-विज्ञानं किमपि करोमि । एवं तस्याश्चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश्च तयाकृताऊजलि-पुटयाभिहितं-भो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतोऽहं पतिव्रता महा-सती च । नो चेच्छापं दत्त्वा त्वां भस्मसात्करिष्यामि ।

स आह—यद्येवं तर्हि किमर्थं त्वयाहूतः ?

सा प्राह-भोः ! शृणुष्वैकाग्र-मनाः । अहमद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात्खे वाणी सञ्जाता-पुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधि-नियोगाद्विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यया त्वमापदं वेत्सि तथा तत्-पर्तीकारमपि जानासि । तदस्ति कश्चिदुपायो येन मे पतिः शत-संवत्सर-जीवी भवति । ततस्तयाभिहितं-वत्से, सन्नपि नास्ति यतस्तवायत्तः स प्रतीकारः । तच्छ्रुत्वा मयाभिहितं-देवि ! यन्मत्-प्राणैर्भवति तदादेशय येन करोमि । ततो देव्याभिहितं-यद्यद्य दिने पर-पुरुषेण सहैकस्मिञ्छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृ-सक्तोऽपमृत्युस्तस्य सञ्चरित, त्वद्-भर्ता पुनर्वर्ष-शतं जीवति । तेन मया त्वमभ्यर्थितः । तयो यत्किञ्चित्कर्तुमनास्तत्कुरुष्व, नहि देवता-वचनमन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हास-विकास-मुखः स तद्-उचितमाचचार ।

Showing 221 to 230 of 327 verses