यदि स्यात्पावकः शीतः प्रोष्णो वा शश-लाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥
Metre: अनुष्टुप्
यथापि शुद्धामशुद्धां वापि जानामि लोक-वचनात् । उक्तं च—
यन्न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्ड-मध्यगम् ॥
Metre: अनुष्टुप्
एवं सम्प्रधार्य तामवोचत-प्रिये,अहं प्रातर्ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल्लगिष्यन्ति । तत्त्वया किञ्चित्पाथेयं मम योग्यं कार्यम् ।
सापि तदाकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि सन्त्यज्य सिद्धमन्नं घृत-शर्करा-प्रायमकरोत् । अथवा साध्विदमुच्यते—
दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु । पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः ॥
अथासौ प्रत्यूषे उत्थाय स्व-गृहान्निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-सत्कारं कुर्वाणा कथञ्चित्तं दिवसमत्यवाहयत् । ततश्च पूर्व-परिचितं विट-गृहं गत्वा तमभ्यर्थोक्तवती यद्-ग्रामान्तरं गतः स दुरात्मा मे पतिः । तदद्य त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् ।
तथानुष्ठिते स रथकारोऽप्यरण्ये दिनमतिवाह्य प्रदोषे स्व-गृहमपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिन्तयत्-किमेनमुत्थाय विनाशयाम्यथवा द्वावप्येतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच्चेष्टितमस्याः शृणोमि चानेन सहालापान् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलमारूढा । तस्यास्तच्-छयनमारोहन्त्या रथकार-शरीरे पादो लग्नः । ततो व्यचिन्तयत्-नूनमेतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम् । तत्-स्त्री-चरित-विज्ञानं किमपि करोमि । एवं तस्याश्चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश्च तयाकृताऊजलि-पुटयाभिहितं-भो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतोऽहं पतिव्रता महा-सती च । नो चेच्छापं दत्त्वा त्वां भस्मसात्करिष्यामि ।
स आह—यद्येवं तर्हि किमर्थं त्वयाहूतः ?
सा प्राह-भोः ! शृणुष्वैकाग्र-मनाः । अहमद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात्खे वाणी सञ्जाता-पुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधि-नियोगाद्विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यया त्वमापदं वेत्सि तथा तत्-पर्तीकारमपि जानासि । तदस्ति कश्चिदुपायो येन मे पतिः शत-संवत्सर-जीवी भवति । ततस्तयाभिहितं-वत्से, सन्नपि नास्ति यतस्तवायत्तः स प्रतीकारः । तच्छ्रुत्वा मयाभिहितं-देवि ! यन्मत्-प्राणैर्भवति तदादेशय येन करोमि । ततो देव्याभिहितं-यद्यद्य दिने पर-पुरुषेण सहैकस्मिञ्छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृ-सक्तोऽपमृत्युस्तस्य सञ्चरित, त्वद्-भर्ता पुनर्वर्ष-शतं जीवति । तेन मया त्वमभ्यर्थितः । तयो यत्किञ्चित्कर्तुमनास्तत्कुरुष्व, नहि देवता-वचनमन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हास-विकास-मुखः स तद्-उचितमाचचार ।