शत्रोः प्रचलने छिद्रमेकमन्यं च संश्रयम् । कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम् ॥
Metre: अनुष्टुप्
एवं ब्रुवाणः समन्तान्न्यग्रोध-पादपमधः परिवेष्ट्य व्यवस्थितः । यावन्न कश्चिद्वायसो दृश्यते, तावच्छाखाग्रमधिरूढो हृष्ट-मना वन्दिभिरभिष्टूयमानोऽरिमर्दनस्तान्परिजनान्प्रोवाच-अहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः ? तद्यावन्न दुर्गं समाश्रयन्ति, तावदेव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च—
वृत्तिमप्याश्रितः शत्रुरवध्यः स्याज्जिगीषुणा । किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥
Metre: अनुष्टुप्
अथैतस्मिन्प्रस्तावे स्थिरजीवी चिन्तयामास-यदेतेऽस्मच्छत्रवोऽनुलब्धास्मद्-वृत्तान्ता यथागतमेव यान्ति ततो मया न किञ्चित्कृतं भवति । उक्तं च—
अनारम्भो हि कार्याणां प्रथमं बुद्धि-लक्षणम् । आरब्धस्यान्त-गमनं द्वितीयं बुद्धि-लक्षणम् ॥
Metre: अनुष्टुप्
तद्वरमनारम्भो न चारम्भ-विघातः । तदहमेतान्शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दमकरोत् । तच्छ्रुत्वा ते सकला अप्युलूकास्तद्-वधाय प्रजग्मुः । अथ तेनोक्तं-अहो !अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीमवस्थां नीतः । तन्निवेदयतात्म-स्वामिने । तेन सह बहु वक्तव्यमस्ति ।
अथ तैर्निवेदितः स उलूक-राजो विस्मयाविष्टस्तत्-क्षणात्तस्य सकाशं गत्वा प्रोवाच-भोः भोः ! किमेतां दशां गतस्त्वम्, तत्कथ्यताम् ।
स्थिरजीवी प्राह-देव ! श्रूयतां तद्-अवस्था-कारणम् । अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्-व्यापादित-प्रभूत-वायसानां पीडया युष्माकमुपरि कोप-शोक-ग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितं-स्वामिन् ! न युक्तं भवतस्तद्-उपरि गन्तुम् । बलवन्त एते, बल-हीनाश्च वयम् । उक्तं च—
बलीयसा हीन-बलो विरोधं न भूति-कामो मनसापि वाञ्छेत् । न वध्यते वेतस-वृत्तिरत्र व्यक्तं प्रणाशोऽस्ति पतङ्ग-वृत्तेः ॥
Metre: उपजातिः
तत्तस्योआयन-प्रदानेन सन्धिरेव युक्तः । उक्तं च—