पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 251 to 260 of 601 verses
Verse 125
शत्रोः प्रचलने छिद्रमेकमन्यं च संश्रयम् । कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम् ॥
Metre: अनुष्टुप्

एवं ब्रुवाणः समन्तान्न्यग्रोध-पादपमधः परिवेष्ट्य व्यवस्थितः । यावन्न कश्चिद्वायसो दृश्यते, तावच्छाखाग्रमधिरूढो हृष्ट-मना वन्दिभिरभिष्टूयमानोऽरिमर्दनस्तान्परिजनान्प्रोवाच-अहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः ? तद्यावन्न दुर्गं समाश्रयन्ति, तावदेव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च—

Verse 126
वृत्तिमप्याश्रितः शत्रुरवध्यः स्याज्जिगीषुणा । किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥
Metre: अनुष्टुप्

अथैतस्मिन्प्रस्तावे स्थिरजीवी चिन्तयामास-यदेतेऽस्मच्छत्रवोऽनुलब्धास्मद्-वृत्तान्ता यथागतमेव यान्ति ततो मया न किञ्चित्कृतं भवति । उक्तं च—

Verse 127
अनारम्भो हि कार्याणां प्रथमं बुद्धि-लक्षणम् । आरब्धस्यान्त-गमनं द्वितीयं बुद्धि-लक्षणम् ॥
Metre: अनुष्टुप्

तद्वरमनारम्भो न चारम्भ-विघातः । तदहमेतान्शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दमकरोत् । तच्छ्रुत्वा ते सकला अप्युलूकास्तद्-वधाय प्रजग्मुः । अथ तेनोक्तं-अहो !अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीमवस्थां नीतः । तन्निवेदयतात्म-स्वामिने । तेन सह बहु वक्तव्यमस्ति ।

अथ तैर्निवेदितः स उलूक-राजो विस्मयाविष्टस्तत्-क्षणात्तस्य सकाशं गत्वा प्रोवाच-भोः भोः ! किमेतां दशां गतस्त्वम्, तत्कथ्यताम् ।

स्थिरजीवी प्राह-देव ! श्रूयतां तद्-अवस्था-कारणम् । अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्-व्यापादित-प्रभूत-वायसानां पीडया युष्माकमुपरि कोप-शोक-ग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितं-स्वामिन् ! न युक्तं भवतस्तद्-उपरि गन्तुम् । बलवन्त एते, बल-हीनाश्च वयम् । उक्तं च—

Verse 128
बलीयसा हीन-बलो विरोधं न भूति-कामो मनसापि वाञ्छेत् । न वध्यते वेतस-वृत्तिरत्र व्यक्तं प्रणाशोऽस्ति पतङ्ग-वृत्तेः ॥
Metre: उपजातिः

तत्तस्योआयन-प्रदानेन सन्धिरेव युक्तः । उक्तं च—

Showing 251 to 260 of 601 verses