रक्ताक्षः कथयति- कथा ५ ब्राह्मण-सर्प-कथा
अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते । अथैकस्मिन्दिवसे स ब्राह्मण उष्ण-कालावसाने घर्मार्तः स्व-क्षेत्र-मध्ये वृक्ष-च्छायायां प्रसुप्तोऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्-फटा-युक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामास-नूनमेषा क्षेत्र-देवता मया कदाचिदपि न पूजिता । तेनेदं मे कृषि-कर्म विफलीभवति । तदस्या अहं पूजामद्य करिष्यामि । इत्यवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपगत्योवाच-भोः क्षेत्र-पाल ! मयैत्वावन्तं कालं न ज्ञातं यत्त्वमत्र वससि । तेन पूजा न कृता । तत्साम्प्रतं क्षमस्वेति ।
एवमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर्यावदागत्य पश्यति, तावद्दीनारमेकं शरावे दृष्टवान् । एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति,एकैकं च दीनारं गृह्णाति । अथैकस्मिन्दिवसे क्षीर-नयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्-नूनं सौवर्ण-दीनार-पूर्णो वल्मीकः । तदेनं हत्वा सर्वमेक-वारं ग्रहीष्यामि इत्येवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मण-पुत्रेण सर्पो लगुडेन ताडितः । ततः कथमपि दैव-वशादमुक्त-जीवितेव रोषात्तमेव तीव्र-विषद-शनैस्तथादशत्, यथा सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठ-सञ्चयैः संस्कृतः ।
अथ द्वितीय-दिने तस्य पिता समायातः । स्वजनेभ्यः सुत-विनाश-कारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च—
भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान् । भूतार्थास्तस्य नश्यन्ति हंसाः पद्म-वने यथा ॥
Metre: अनुष्टुप्
ब्राह्मणः कथयति- कथा ६ हैम-हंस-कथा
अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति तत्र च प्रभूता जाम्बूनद-मया हंसास्तिष्ठन्ति । षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्-पक्षी समायातः । तैश्चोक्तः-अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैक-दानं कृत्वा गृहीतमेतत्सरः । एवं च किं बहुना, परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्-देव !एते पक्षिण एवं वदन्ति, यदस्माकं राजा किं करिष्यति ? न कस्याप्यावासं दद्मः ।
मया चोक्तं-न शोभनं युष्माभिरभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् ।
ततो राजा भृत्यानब्रवीत्-भो भोः गच्छत । सर्वान्पक्षिणो गतासून्कृत्वा शीघ्रमानयत । राजादेशानन्तरमेव प्रचेलुस्ते ।