पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 271 to 280 of 601 verses
रक्ताक्षः कथयति- कथा ५ ब्राह्मण-सर्प-कथा

अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते । अथैकस्मिन्दिवसे स ब्राह्मण उष्ण-कालावसाने घर्मार्तः स्व-क्षेत्र-मध्ये वृक्ष-च्छायायां प्रसुप्तोऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्-फटा-युक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामास-नूनमेषा क्षेत्र-देवता मया कदाचिदपि न पूजिता । तेनेदं मे कृषि-कर्म विफलीभवति । तदस्या अहं पूजामद्य करिष्यामि । इत्यवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपगत्योवाच-भोः क्षेत्र-पाल ! मयैत्वावन्तं कालं न ज्ञातं यत्त्वमत्र वससि । तेन पूजा न कृता । तत्साम्प्रतं क्षमस्वेति ।

एवमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर्यावदागत्य पश्यति, तावद्दीनारमेकं शरावे दृष्टवान् । एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति,एकैकं च दीनारं गृह्णाति । अथैकस्मिन्दिवसे क्षीर-नयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्-नूनं सौवर्ण-दीनार-पूर्णो वल्मीकः । तदेनं हत्वा सर्वमेक-वारं ग्रहीष्यामि इत्येवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मण-पुत्रेण सर्पो लगुडेन ताडितः । ततः कथमपि दैव-वशादमुक्त-जीवितेव रोषात्तमेव तीव्र-विषद-शनैस्तथादशत्, यथा सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठ-सञ्चयैः संस्कृतः ।

अथ द्वितीय-दिने तस्य पिता समायातः । स्वजनेभ्यः सुत-विनाश-कारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च—

Verse 133
भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान् । भूतार्थास्तस्य नश्यन्ति हंसाः पद्म-वने यथा ॥
Metre: अनुष्टुप्

पुरुषैरुक्तं-कथमेतत् ?

ब्राह्मणः कथयति- कथा ६ हैम-हंस-कथा

अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति तत्र च प्रभूता जाम्बूनद-मया हंसास्तिष्ठन्ति । षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्-पक्षी समायातः । तैश्चोक्तः-अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैक-दानं कृत्वा गृहीतमेतत्सरः । एवं च किं बहुना, परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्-देव !एते पक्षिण एवं वदन्ति, यदस्माकं राजा किं करिष्यति ? न कस्याप्यावासं दद्मः ।

मया चोक्तं-न शोभनं युष्माभिरभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् ।

ततो राजा भृत्यानब्रवीत्-भो भोः गच्छत । सर्वान्पक्षिणो गतासून्कृत्वा शीघ्रमानयत । राजादेशानन्तरमेव प्रचेलुस्ते ।

Showing 271 to 280 of 601 verses