गृध्रेणापहृतं मांसं मत्स्योऽपि सलिलं गतः । मत्स्य-मांस-परिभ्रष्टे किं निरीक्ष्यसि जम्बुके ॥
Metre: अनुष्टुप्
मित्रं ह्यमित्रतां यातमपरं मे प्रिया मित्रा । गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ॥
Metre: अनुष्टुप्
क्षते प्रहारा निपतन्त्यभीक्ष्णमन्न-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वमिदं नराणाम् ॥
Metre: उपजातिः
तत्किं करोमि ? किमनेन सह युद्धं करोमि ? किं वा साम्नैव सम्बोध्य गृहान्निःसारयामि ? किं वा भेदं दानं वा करोमि ?अथवामुमेव वानर-मित्रं पृच्छामि ?उक्तं च—
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान्स्व-हितान्गुरून् । न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥
Metre: अनुष्टुप्
एवं सम्प्रधार्य भूयोऽपि तमेव जम्बू-वृक्षमारूढं कपिमपृच्छत्-भो मित्र ! पश्य मे मन्द-भाग्यताम् । तत्सम्प्रति गृहमपि मे बलवत्तरेण मकरेण रुद्धम् । तदहं त्वां प्रष्टुमभ्यागतः । कथय किं करोमि ? सामादीनामुपायानां मध्ये कस्यात्र विषयः ?
स आह—भोः कृतघ्न पाप-चारिन् ! मया निषिद्धोऽपि किं भूयो मामनुसरसि । नाहं तव मूर्खस्योपदेशमपि दास्यामि ।
तच्छ्रुत्वा मकरः प्राह-भो मित्र ! सापराधस्य मे पूर्व-स्नेहमनुस्मृत्य हितोपदेशं देहि ।
वानर आह—नाहं ते कथयिष्यामि । यद्भार्या-वाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः । तदेवं न युक्तम् । यद्यपि भार्या सर्व-लोकादपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश्च भार्या-वाक्येन समुद्रे प्रक्षिप्यन्ते । तन्मूर्ख ! मूढत्वेन नाशस्तव मया प्रागेव निवेदित आसीत्, यतः—