अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सोऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्युत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमप्यर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तानवलोक्य स स्व-भार्यामाह-प्रिये ! पश्यैतान्स्थूल-पट्ट-कारकान्धन-कनक-समृद्धान् । तदधारणकं ममैतत्स्थानम् । तदन्यत्रोपार्जनाय गच्छामि । सा प्राह-भोः प्रियतम ! मिथ्या प्रलपितमेतद्यदन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति । उक्तं च—
उत्पतन्ति यदाकाशे निपतन्ति महीतले । पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति ॥
Metre: अनुष्टुप्
न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । कर-तल-गतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥
Metre: आर्या (१२, १८, १२, १५)
यथा धेनु-सहस्रेषु वत्सो विन्दति मातरं । तथा पूर्व-कृतं कर्म कर्तारमनुगच्छति ॥
Metre: अनुष्टुप्
शेते सह शयानेन गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ॥
Metre: अनुष्टुप्
यथा छाया-तपौ नित्यं सुसम्बद्धौ परस्परं । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥
Metre: अनुष्टुप्
कौलिक आह—प्रिये ! न सम्यगभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च—