पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 321 to 330 of 1051 verses
Verse 174
अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थाः कष्ट-संश्रयाः ॥
Metre: अनुष्टुप्

अथाषाढ-भूतिर्नाम पर-वित्तापहारी धूर्तस्तामर्थ-मात्रां तस्य कक्षान्तर-गतां लक्षयित्वा व्यचिन्तयत्-कथं मयास्येयमर्थ-मात्रा हर्तव्या इति ।

तदत्र मठे तावद्दृढ-शिला-सञ्चय-वशाद्भित्ति-भेदो न भवति । उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात् । तदेनं माया-वचनैर्विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद्विश्वासमेति । उक्तं च—

Verse 175
निस्पृहो नाधिकारी स्यान्नाकामी मण्डन-प्रियः । नाविदग्धः प्रियं ब्रूयात्स्फुट-वक्ता न वञ्चकः ॥
Metre: अनुष्टुप्

एवं निश्चित्य तस्यान्तिकमुपगम्य-ॐ नमः शिवाय-इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च स-प्रश्रयमुवाच-भगवनसारः संसारोऽयम् । गिरि-नदी-वेगोपमं यौवनम् । तृणाग्नि-समं जीवितम् । शरद्-अभ्र-च्छाया-सदृशा भोगाः स्वप्न-सदृशो मित्र-पुत्र-कलत्र-भृत्य-वर्ग-सम्बन्धः । एवं मया सम्यक्परिज्ञातम् । तत्किं कुर्वतो मे संसार-समुद्रोत्तरणं भविष्यति ।

तच्छ्रुत्वा देव-शर्मा सादरमाह-वत्स ! धन्योऽसि यत्प्रथमे वयस्येवं विरक्ती-भावः । उक्तं च—

Verse 176
पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥
Metre: अनुष्टुप्

Verse 177
आदौ चित्ते ततः काये सतां संजायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥
Metre: अनुष्टुप्

यच्च मां संसार-सागरोत्तरणोपायं पृच्छसि । तच्छ्रूयताम्—

Verse 178
शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः । दीक्षितः शिव-मन्त्रेण स भस्माङ्गी शिवो भवेत् ॥
Metre: अनुष्टुप्

Showing 321 to 330 of 1051 verses