अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थाः कष्ट-संश्रयाः ॥
Metre: अनुष्टुप्
अथाषाढ-भूतिर्नाम पर-वित्तापहारी धूर्तस्तामर्थ-मात्रां तस्य कक्षान्तर-गतां लक्षयित्वा व्यचिन्तयत्-कथं मयास्येयमर्थ-मात्रा हर्तव्या इति ।
तदत्र मठे तावद्दृढ-शिला-सञ्चय-वशाद्भित्ति-भेदो न भवति । उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात् । तदेनं माया-वचनैर्विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद्विश्वासमेति । उक्तं च—
निस्पृहो नाधिकारी स्यान्नाकामी मण्डन-प्रियः । नाविदग्धः प्रियं ब्रूयात्स्फुट-वक्ता न वञ्चकः ॥
Metre: अनुष्टुप्
एवं निश्चित्य तस्यान्तिकमुपगम्य-ॐ नमः शिवाय-इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च स-प्रश्रयमुवाच-भगवनसारः संसारोऽयम् । गिरि-नदी-वेगोपमं यौवनम् । तृणाग्नि-समं जीवितम् । शरद्-अभ्र-च्छाया-सदृशा भोगाः स्वप्न-सदृशो मित्र-पुत्र-कलत्र-भृत्य-वर्ग-सम्बन्धः । एवं मया सम्यक्परिज्ञातम् । तत्किं कुर्वतो मे संसार-समुद्रोत्तरणं भविष्यति ।
तच्छ्रुत्वा देव-शर्मा सादरमाह-वत्स ! धन्योऽसि यत्प्रथमे वयस्येवं विरक्ती-भावः । उक्तं च—
पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥
Metre: अनुष्टुप्
आदौ चित्ते ततः काये सतां संजायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥
Metre: अनुष्टुप्
यच्च मां संसार-सागरोत्तरणोपायं पृच्छसि । तच्छ्रूयताम्—
शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः । दीक्षितः शिव-मन्त्रेण स भस्माङ्गी शिवो भवेत् ॥
Metre: अनुष्टुप्