क्षणान्तरे च तथैव रक्तास्वादन-लौल्यान्मध्ये प्रविशंस्तयोः शिरः-सम्पाते पतिओत्मृतश्च शृगालः । देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत्कन्थामालोकयति तावन्मात्रां न पश्यति । ततश्च-हा हा मुषितोऽस्मि इति जल्पन्पृथिवी-तले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुमारब्धः-भो आषाढभूते ! क्व मां वञ्चयित्वा गतोऽसि ? तद्देहि मे प्रतिवचनम् ।
एवं बहु विलप्य तस्य पद-पद्धतिमन्वेषयन्शनैः शनैः प्रस्थितः । अथैव गच्छन्सायन्तन-समये कञ्चिद्ग्राममाससाद । अथ तस्माद्ग्रामात्कश्चित्कौलिकः सभार्ह्यो मद्य-पान-कृते समीप-वर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाच-भो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमप्यत्र ग्रामे जानीमः । तद्गृह्यतामतिथि-धर्मः । उक्तं च—
सम्प्राप्तो योऽतिथिः सायं सूर्योढे गृह-मेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृह-मेधिनः ॥
Metre: अनुष्टुप्
तृणानि भूमिरुदकं वाक्-चतुर्थी च सूनृता । सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥
Metre: अनुष्टुप्
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः । पाद-शौचेन पितरः अर्घाच्छम्भुस्तथातिथेः ॥
Metre: अनुष्टुप्
कौलिकोऽपि तच्छ्रुत्वा भार्यामाह-प्रिये, गच्छ त्वतिथिमादाय गृहं प्रति पाद-शौच-भोजन-शयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूत-मद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तमादाय प्रहसित-वदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते—
दुर्दिवसे घन-तिमिरे दुःसञ्चारासु नगर-वीथीषु । पत्युर्विदेश-गमने परम-सुखं जघन-चपलायाः ॥
Metre: आर्या (१२, १८, १२, १५)
पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्य-रत-लुब्धाः ॥
Metre: आर्या (१२, १८, १२, १५)