पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 321 to 327 of 327 verses
वानरोऽब्रवीत्—

कथा १५ चित्राङ्ग-नाम-सारमेय-कथा

अस्ति कस्मिंश्चिदधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च चिर-कालं दुर्भिक्षं पतितम् । अन्नाभावात्सारमेयादयो निष्कुलतां गन्तुमारब्धाः । अथ चित्राङ्गः क्षुत्क्षाम-कण्ठस्तद्-भयाद्देशान्तरं गतः । तत्र च कस्मिंश्चित्पुरे कस्यचिद्गृह-मेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन्परां तृप्तिं गच्छति । परं तद्-गृहाद्बहिर्निष्क्रान्तोऽन्यैर्मदोद्धत-सारमेयैः सर्व-दिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर्विदार्यते । ततस्तेन विचिन्तितवान्-अहो ! वरं स्व-देशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च कोऽपि युद्धं करोति । तदेवं स्व-नगरं व्रजामि इत्यवधार्य स्व-स्थानं प्रति जगाम ।

अथासौ देशान्तरात्समायातः सर्वैरपि स्वजनैः पृष्टः-भोश्चित्राङ्ग ! कथयास्माकं देशान्तर-वार्ताम् । कीदृग्देशः ? किं चेष्टितं लोकस्य ? क आहारः ? कश्च व्यवहारस्तत्र इति ।

स आह—किं कथ्यते विदेशस्य स्वरूप-विषयः ? सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः (८३)इति पठति ।

सोऽपि मकरस्तद्-उपदेशं श्रुत्वा कृत-मरण-निश्चयो वानरमनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्व-गृह-प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ-सत्त्वावष्टम्भनाच्च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिर-कालमतिष्ठत् । साध्विदमुच्यते—

Verse 84
अकृत्वा पौरुषं या श्रीः किं तयालस-भाग्यया । कुरङ्गोऽपि समश्नाति दैवादुपनतं तृणम् ॥
Metre: अनुष्टुप्

Showing 321 to 327 of 327 verses