दुरधिगमः पर-भागो यावत्पुरुषेण साहसं न कृतम् । जयति तुलामधिरूढो भास्वानिह जलद-पटलानि ॥
Metre: आर्या (१२, १८, १२, १५)
तत्कथ्यतामस्माकं कश्चित्धनोपायो विवर-प्रवेश-शाकिनी-साधन-श्मशान-सेवन-महा-मांस-विक्रय-साधक-वर्जित-प्रभृतीनामेकतम इति । अद्भुत-शक्तिर्भवान्श्रूयते । वयमप्यतिसाहसिकाः । उक्तं च—
महान्त एव महतामर्थं साधयितुं क्षमाः । ऋते समुद्रादन्यः को बिभर्ति बडवानलम् ॥
Metre: अनुष्टुप्
भैरवानन्दोऽपि तेषां सिद्ध्य्-अर्थं बहूपायं सिद्ध-वर्ति-चतुष्टयं कृत्वार्पयत् । आह च-गम्यतां हिमालय-दिशि । तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानमसन्दिग्धं प्राप्यस्व । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम् ।
तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्ताद्वरित्र्निपपात । अथासौ यावत्तं प्रवेशं खनति तावत्ताम्रमयी भूमिः । ततस्तेनाभिहितम्-अहो, गृह्यतां स्वेच्छया ताम्रम् ।
अन्ये प्रोचुः-भो मूढ ! किमनेन क्रियते यत्प्रभूतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठ अग्रतो गच्छामः ।
सोऽब्रवीत्-यान्तु भवन्तः । नाहमग्र यास्यामि । एवमभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः ।
ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्-मात्रं गतस्याग्रेसरस्य वर्तिर्निपपात । सोऽपि यावत्खनितुमारब्धस्तावद्रूप्य-मयी क्षितिः । ततः प्रहर्षितः प्राह, यत्-भो भो, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् ।
तावूचतुः-भोः पृष्ठतस्ताम्रमयी भूमिः । अग्रतो रूप्य-मयी । तन्नूनमग्रे सुवर्ण-मयी भविष्यति । किं चानेन प्रभूतेनापि दारिद्र्य-नाशो न भवति । तदावामग्रे यास्यावः ।
एवमुक्त्वा द्वावप्यग्रे प्रस्थितौ । सोऽपि स्व-शक्त्या रूप्यमादाय निवृत्तः । अथ तयोरपि गच्छतोरेकस्याग्रे वर्तिः पपात । सोऽपि प्रहृष्टो यावत्खनति, तावत्सुवर्ण-भूमिं दृष्ट्वा द्वितीयं प्राह-भो, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णादन्यन्न किञ्चिदुत्तमं भविष्यति । स प्राह-मूढ ! न किञ्चिद्वेत्सि । प्राक्ताम्रं, ततो रूप्यं, ततः सुवर्णम् । तन्नूनमतः परं रत्नानि भविष्यन्ति । येषामेकतमेनापि दारिद्र्य-नाशो भवति । तदुत्तिष्ठ,अग्रे गच्छावः । किमनेन भार-भूतेनापि प्रभूतेन ?