पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 61 to 70 of 367 verses
Verse 26
सत्यं परित्यजति मुञ्चति बन्धु-वर्गं शीघ्रं विहाय जननीमपि जन्म-भूमिम् । सन्त्यज्य गच्छति विदेशमभीष्ट-लोकं चिन्ताकुलीकृत-मतिः पुरुषोऽत्र लोके ॥
Metre: वसन्ततिलका

एवं क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृत-स्नानाः महा-कालं प्रणम्य यावन्निर्गच्छन्ति तावत्भैरवानन्दो नाम योगी संमुखो बभूव । ततस्तं ब्राह्मणोचित-विधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाः-कुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ?

ततस्तैरभिहितम्-वयं सिद्धि-यात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीत्येष निश्चयः । उक्तं च—

Verse 27
दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि । अवसर-तुलिताभिरलं तनुभिः साहसिक-पुरुषाणाम् ॥
Metre: आर्या (१२, १८, १२, १५)

तथा च—

Verse 28
पतति कदाचिन्नभसः खाते पातालतोऽपि जलमेति । दैवमचिन्त्यं बलवद्बलवान्ननु पुरुषकारोऽपि ॥
Metre: आर्या (१२, १८, १२, १५)

Verse 29
अभिमत-सिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण । दैवमिति यदपि कथयसि पुरुष-गुणः सोऽप्यदृष्टाख्यः ॥
Metre: आर्या (१२, १८, १२, १५)

Verse 30
भयमतुलं गुरु-लोकात्तृणमिव तुलयन्ति साधु साहसिकाः । प्राणानद्भुतमेतच्चार्तिं चरितं ह्युदाराणाम् ॥
Metre: आर्या (१२, १८, १२, १५)

Verse 31
क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते । मधुभिन्मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम् ॥
Metre: आर्या (१२, १८, १२, १५)

Verse 32
तस्य कथं न चला स्यात्पत्नी विष्णोर्नृसिंहकस्यापि मासांश्चतुरो निद्रां यः सेवति जल-गतः सततम् ॥
Metre: आर्या (१२, १८, १२, १५)

Showing 61 to 70 of 367 verses