सत्यं परित्यजति मुञ्चति बन्धु-वर्गं शीघ्रं विहाय जननीमपि जन्म-भूमिम् । सन्त्यज्य गच्छति विदेशमभीष्ट-लोकं चिन्ताकुलीकृत-मतिः पुरुषोऽत्र लोके ॥
Metre: वसन्ततिलका
एवं क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृत-स्नानाः महा-कालं प्रणम्य यावन्निर्गच्छन्ति तावत्भैरवानन्दो नाम योगी संमुखो बभूव । ततस्तं ब्राह्मणोचित-विधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाः-कुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ?
ततस्तैरभिहितम्-वयं सिद्धि-यात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीत्येष निश्चयः । उक्तं च—
दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि । अवसर-तुलिताभिरलं तनुभिः साहसिक-पुरुषाणाम् ॥
Metre: आर्या (१२, १८, १२, १५)
पतति कदाचिन्नभसः खाते पातालतोऽपि जलमेति । दैवमचिन्त्यं बलवद्बलवान्ननु पुरुषकारोऽपि ॥
Metre: आर्या (१२, १८, १२, १५)
अभिमत-सिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण । दैवमिति यदपि कथयसि पुरुष-गुणः सोऽप्यदृष्टाख्यः ॥
Metre: आर्या (१२, १८, १२, १५)
भयमतुलं गुरु-लोकात्तृणमिव तुलयन्ति साधु साहसिकाः । प्राणानद्भुतमेतच्चार्तिं चरितं ह्युदाराणाम् ॥
Metre: आर्या (१२, १८, १२, १५)
क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते । मधुभिन्मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम् ॥
Metre: आर्या (१२, १८, १२, १५)
तस्य कथं न चला स्यात्पत्नी विष्णोर्नृसिंहकस्यापि मासांश्चतुरो निद्रां यः सेवति जल-गतः सततम् ॥
Metre: आर्या (१२, १८, १२, १५)