कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतमजनयत् । तस्मिन्नेव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुत-वत्सला दारकवत्तमपि नकुलं स्तन्य-दानाभ्यङ्ग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततमेवमाशङ्कते यत्कदाचिदेष स्व-जाति-दोष-वशादस्य दारकस्य विरुद्धमाचरिष्यति इति । उक्तं च—
कुपुत्रोऽपि भवेत्पुंसां हृदयानन्द-कारकः । दुर्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः ॥
Metre: अनुष्टुप्
एवं च भाषते लोकश्चन्दनं किल शीतलम् । पुत्र-गात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ॥
Metre: अनुष्टुप्
सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च । लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥
Metre: अनुष्टुप्
अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जल-कुम्भमादाय पतिमुवाच-ब्राह्मण, जलार्थमहं तडागे यास्यामि । त्वया पुत्रोऽयं नकुलाद्रक्षणीयः ।
अथ तस्यां गतायां, पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन्निर्गतः । मातापि तं रुधिर-क्लिन्न-मुखमालोक्य शङ्कित-चित्ता नूनमनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात्तस्योपरि तं जल-कुम्भं चिक्षेप ।
एवं सा नकुलं व्यापाद्य यावत्प्रलपन्ती गृहे आगच्छति, तावत्सुतस्तथैव सुप्तस्तिष्ठति । समीपे कृष्ण-सर्पं खण्डशः कृतमवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च ताडितुमारब्धा ।
अत्रान्तरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत्पश्यति तावत्पुत्र-शोकोऽभितप्ता ब्राह्मणी प्रलपति-भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्-वचः । तदनुभव साम्प्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम् । अथवा साध्विदमुच्यते—
अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः । अतिलोभज-दोषेण जम्बुको निधनं गतः ॥
Metre: अनुष्टुप्