इति चिन्तयमानं मकर आह—भो मित्र !अर्पय तद्धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनादुत्तिष्ठति ।
अथ विहस्य निर्भर्त्सयन्वानरस्तमाह-धिग्धिङ्मूर्ख विश्वास-घातक ! किं कस्यचिद्धृदय-द्वयं भवति ? तदाशु गम्यतां जम्बू-वृक्षस्याधस्तान्न भूयोऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः—
सकृद्दुष्टं च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥
Metre: अनुष्टुप्
तच्छ्रुत्वा मकरः संविलक्षं चिन्तितवान्-अहो ! मयातिमूढेन किमस्य स्व-चित्ताभिप्रायो निवेदितः । तद्यद्यसौ पुनरपि कथञ्चिद्विश्वासं गच्छति, तद्भूयोऽपि विश्वासयामि । आह च-मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित्तव हृदयेन प्रयोजनम् । तदागच्छ प्राघुणिक-न्यायेनास्मद्-गृहम् ।
वानर आह—भो दुष्ट ! गम्यताम् । अधुना नाहमागमिष्यामि । उक्तं च—
बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥
Metre: उपजातिः
कथा १ गङ्गदत्त-प्रियदर्शन-कथा
कस्मिंश्चित्कूपे गङ्गदत्तो नाम मण्डूक-राजः प्रतिवसति स्म । स कदाचिद्दायादैरुद्वेजितोऽरघट्ट-घटीमारुह्य निष्क्रान्तः । अथ तेन चिन्तितम्-यत्कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च—