पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 51 to 60 of 327 verses
Verse 17
आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥
Metre: आर्या (१२, १८, १२, १५)

एवं चिन्तयन्बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽप्यचिन्तयत्-यदेनं तत्र कूपे नीत्वा सकल-दायादानामुच्छेदं करोमि । उक्तं च—

Verse 18
शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् । स्व-कार्याय यतो न स्यात्काचित्पीडात्र तत्-क्षये ॥
Metre: अनुष्टुप्

तथा च—

Verse 19
शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम् ॥
Metre: अनुष्टुप्

एवं स विभाव्य बिल-द्वारं गत्वा तमाहूतवान्-एह्येहि प्रिय-दर्शन !एहि !

तच्छ्रुत्वा सर्पश्चिन्तयामास-य एवं मामाह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति । उक्तं च—

Verse 20
यस्य न जायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥
Metre: अनुष्टुप्

कदाचित्कोऽपि मन्त्रवाद्यौषध-चतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति । आह च-भोः ! को भवान् ?

स आह—अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्-सकाशे मैत्र्य्-अर्थमभ्यागतः ।

Showing 51 to 60 of 327 verses