आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥
Metre: आर्या (१२, १८, १२, १५)
एवं चिन्तयन्बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽप्यचिन्तयत्-यदेनं तत्र कूपे नीत्वा सकल-दायादानामुच्छेदं करोमि । उक्तं च—
शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् । स्व-कार्याय यतो न स्यात्काचित्पीडात्र तत्-क्षये ॥
Metre: अनुष्टुप्
शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम् ॥
Metre: अनुष्टुप्
एवं स विभाव्य बिल-द्वारं गत्वा तमाहूतवान्-एह्येहि प्रिय-दर्शन !एहि !
तच्छ्रुत्वा सर्पश्चिन्तयामास-य एवं मामाह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति । उक्तं च—
यस्य न जायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥
Metre: अनुष्टुप्
कदाचित्कोऽपि मन्त्रवाद्यौषध-चतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति । आह च-भोः ! को भवान् ?
स आह—अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्-सकाशे मैत्र्य्-अर्थमभ्यागतः ।