कथा २ लोभाविष्ट-चक्र-धर-कथा
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः-अहो धिगियं दरिद्रता !उक्तं च—
वरं वनं व्याघ्र-गजादि-सेवितं जनेन हीनं बहु-कण्टकावृतम् । तृणानि शय्या परिधान-वल्कलः न बन्धु-मध्ये धन-हीन-जीवितम् ॥
Metre: वंशस्थम्
स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्-बान्धवाः राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः । भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपित-विक्रमाण्यपि नृणां येषां न हि स्याद्धनम् ॥
Metre: शार्दूलविक्रीडितम्
शूरः सुरूपः सुभगश्च वाग्मी शस्त्राणि शास्त्राणि विदांकरोतु । अर्थं विना नैव यशश्च मानं प्राप्नोति मर्त्योऽत्र मनुष्य-लोके ॥
Metre: इन्द्रवज्रा
तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव बाह्यः क्षणेन भवतीति विचित्रमेतत् ॥
Metre: वसन्ततिलका
तद्गच्छामः कुत्रचिदर्थाय इति सम्मन्त्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्विदमुच्यते—