ते स सर्वे तदादेशकारिणस्तत्-सहिता वेगात्तद्-गृहं गता यावत्पश्यन्ति तावद्रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश्च-भोः किमेतत् ? ते प्रोचुर्यथावस्थितं नापित-वृत्तम् ।
तैरपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः । तैर्नापितः पृष्टः-भोः ! किमेतत्भवता कुकृत्यमनुष्ठितम् ?
स आह—किं करोमि ? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः । सोऽपि सर्वं मणिप्रभ-वृत्तान्तं यथा-दृष्टमकथयत् ।
ततः श्रेष्ठिनमाहूय ते भणितवन्तः-भोः श्रेष्ठिन् ! किं त्वया कश्चित्क्षपणको व्यापादितः ?
ततः तेनापि सर्वः क्षपणक-वृत्तान्तस्तेषां निवेदितः । अथ तैरभिहितम्-अहो शूलमारोप्यतामसौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैरभिहितम्—
कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥
Metre: अनुष्टुप्
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति सन्तापो ब्राह्मणी नकुलं यथा ॥
Metre: अनुष्टुप्
ते धर्माधिकारिणः प्रोचुः—