सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि । आढ्ये कल्प-तराविव नित्यं रज्यन्ति जन-निवहाः ॥
Metre: आर्या (१२, १८, १२, १५)
विफलमिह पूर्व-सुकृतं विद्यावन्तोऽपि कुल-समुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां यान्ति ॥
Metre: आर्या (१२, १८, १२, १५)
लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम् । सर्वमलज्जाकरमिह यद्यत्कुर्वन्ति परिपूर्णाः ॥
Metre: आर्या (१२, १८, १२, १५)
एवं सम्प्रधार्य भूयोऽप्यचिन्तयत्-तदहमनशनं कृत्वा प्राणानुत्सृजामि । किमनेन व्यर्थ-जीवित-व्यसनेन ?एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच-भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस्तव पूर्व-पुरुषोपार्जितः । तदनेनैव रूपेण प्रातस्त्वद्-गृहमागमिष्यामि । तत्त्वयाहं लगुड-प्रहारेण शिरसि ताडनीयः, येन कनक-मयो भूत्वाक्षयो भवामि ।
अथ प्रातः प्रबुद्धः सन्स्वप्नं स्मरंश्चिन्ता-चक्रमारूढस्तिष्ठति-अहो सत्योऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतोऽहमहर्-निशं केवलं वित्तमेव चिन्तयामि । उक्तं च—
व्याधितेन स-शोकेन चिन्ता-ग्रस्तेन जन्तुना । कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥
Metre: अनुष्टुप्
एतस्मिन्नन्तरे तस्य भार्यया कश्चिन्नापितः पाद-प्रक्षालनायाहूतः अत्रान्तरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तमालोक्य प्रहृष्ट-मना यथासन्न-काष्ठ-दण्डेन तं शिरस्यताडयत् । सोऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात्भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं सन्तोष्य प्रोवाच-तदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन्नाख्येयोऽयं वृत्तान्तः ।
नापितोऽपि स्व-गृहं गत्वा व्यचिन्तयत्-नूनमेते सर्वेऽपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवन्ति । तदहमपि प्रातः प्रभूतानाहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम ।
अथ प्रभातेऽभ्युत्थाय बृहल्लगुडमेकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेन्द्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्यामवनिं गत्वा वक्त्र-द्वार-न्यस्तोत्तरीयाञ्चलस्तार-स्वरेणेमं श्लोकमपठत्—
जयन्ति ते जिना येषां केवल-ज्ञान-शालिनाम् । आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम् ॥
Metre: अनुष्टुप्